पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/४४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
36
अलंकारमणिहारे

यन्मुहूर्तं क्षणं वाऽपि वासुदेवो न चिन्त्यते ।
सा हानिस्तन्महच्छिद्रं सा भ्रान्तिस्सा च विक्रिया ।

इति पुराणं, त्वं भवान् क्षणमपि अत्यल्पकालमपि वा न चिन्त्यस इति यत् सा हानिरिति प्राह । परिहारस्तु— पूर्वार्धे हा निस्समजनिं आप इति छेदः । त्वद्ध्यानेन भृतः जनः भृञः कर्मणि क्तः । निस्समां असदृशीं जनिं जन्म ‘स हि विद्यातस्तं जनयति तच्छ्रेष्ठं जन्म’ इत्युक्तप्रकारं ब्रह्मविद्यावेत्तृत्वरूपं जन्मेति भावः । यद्वा ‘वर्णाश्रमाचारपरः’ इत्युपक्रम्य--

महता तेन पुण्येन वैष्णवत्वं लभेत सः ।
विष्णुभक्तिपरस्तद्वत्सप्त जन्मानि मानवः ॥
एकान्तभगवद्याजी विप्रो भागवतान्वये ।
ततस्स लभते जन्म देवैरत्यन्तदुर्लभम् ॥

इति वाराहोक्तं लोकोत्तरं प्रपन्नजन्मेति भावः । आप प्राप्तवान् । निस्संदेहैव तत्प्राप्तिरिति द्योतनाय ‘कृतं कार्यमिति श्रीमान् व्याजहार पितामहः' इत्युक्तरीत्या सिद्धवत्कारेण भूतनिर्देशः । हा इत्याश्चर्ये । अत्र उपपादितश्लेषभित्तिकाभेदाध्यवसायनिर्व्यूढस्वविवक्षितभगवद्ध्यातृहान्यसंभावितत्वनिर्धारणाय उपदर्शितपुराणरूपशब्दप्रमाणोदाहरणम् ॥

 व्याकरणरूपशब्दप्रमाणं यथा--

 महतः परमस्य सतो भवता पुरुषेण पूज्यमानेन । सामस्त्येऽग्र्यत्वं स्याद्देवैतत्प्राह सन्महत्सूत्रम् ॥ २०६१ ॥

 हे देव ! महतः पूज्यस्य अत एव परमस्य उत्कृष्टस्य सतः ब्रह्मविदः कस्यचित् पूज्येन पुरुषेण भगवता नारायणेन भवता