पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
35
शब्दप्रमाणसरः (११५)

 हे नाथ! एतत् करणगणं इन्द्रियवर्गं त्वदाराधनौपयिकमिति भावः । मम त्वं अलं पर्याप्तं अदाः दत्तवानसि अहमपि तव अदां अददाम् । अस्मिन् पक्षे अलंकरणमिति समस्तं पदम् । अलंकरणगणं अलङ्कारप्रतिपादकममुं प्रबन्धमित्यर्थः । अत्र स्वाभिमतेऽर्थे--

 ‘कृते च प्रतिकर्तव्यमेष धर्मस्सनातनः ।' इति श्रीरामायणस्य प्रमाणत्ववर्णनम् । श्लेषोज्जीवितमिदम् । पूर्वं तु रूपकसंकीर्णम् ॥

 यथावा--

 यद्यपि सर्वज्ञस्त्वं न भक्तदोषांस्तथाऽपि जानासि । तदविज्ञातेति त्वां नामसहस्रे पठन्ति मुनिवर्याः ॥ २०५९ ॥

 अत्र सर्वज्ञस्यापि श्रीनिवासस्य भक्तदोषादर्शननिर्धारणेऽर्थे ‘अविज्ञाता सहस्रांशुः’ इति श्रीभारतान्तर्गतसहस्रनामस्तुतिवचनं प्रमाणमुपनिबद्धम् ॥

 पुराणरूपशब्दप्रमाणं यथा--

 हानिस्समजनि माप त्वद्ध्यानभृतोऽपि वासुदेव कथम् । प्राह पुराणं हानिस्सा यत् क्षणमपि न चिन्त्यसे त्वमिति ॥ २०६० ॥

 हे माप! माधव हे वासुदेव! त्वद्ध्यानं बिभर्तीति त्वद्ध्यानभृत् तस्यापि निरन्तरं त्वां चिन्तयतोऽपीति भावः । हानिः इष्टहानिः कथं समजनि अजायत । आश्चर्यमेतदिति भावः । हानिः कुतो न संभवेदित्यत आह-- प्राहेति । पुराणं--