पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/४५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
37
शब्दप्रमाणसरः (११५)

त्वया सामस्त्ये सामग्र्ये सति संबन्धे सतीत्यर्थः । अग्र्यत्वं सकललोकाग्रगण्यता स्यात् । एतत्, इदं कर्म । सन्महत्सूत्रं कर्तृ । प्राह वदति । इममर्थमुक्तसूत्रं कथयतीत्यर्थः । सूत्रपक्षे-- महतः परमस्य सत इति च शब्दस्य पूज्यमानेन पुरुषेण पुरुषशब्देन सामस्त्ये समस्ततायां सत्यां समासे सतीत्यर्थः । अग्र्यत्वं पूर्वप्रयोज्यत्वं स्यादित्यर्थः । ‘सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः’ इति सूत्रेण सदादिशब्दानां पूज्यमानवाचकैस्सह समासविधानात्तेषां ‘प्रथमानिर्दिष्टं समास उपसर्जनम्’ इत्युपसर्जनसंज्ञायां ‘उपसर्जनं पूर्वम्' इति पूर्वप्रयोज्यत्वं स्यादित्यर्थः । अत्र विवक्षितस्य ब्रह्मविदो भगंवत्संबन्धेन सर्वलोकाग्रगणनीयत्वस्य निर्धारणे उपपादितश्लेषभित्तिकाभेदाध्यवसायेन पाणिनीयसूत्ररूपशब्दः प्रमाणपदवीमनायि ॥

 यथावा--

 विजितस्स पारिजाताहरणरणाग्रे त्वया हरे मघवा । बहुळं तान्तोऽद्यापिच मघवा बहुळमिति सूत्रमिह मानम् ॥ १०६२ ॥

 हे हरे! मघवा इन्द्रः पारिजाताहरणरणाग्रे त्वया विजितः । अतएव अद्यापि च बहुलं अतिवेलं तान्तः ग्लानः । इह अस्मिन्नर्थे 'मघवा बहुलम्' इति सूत्रं मानम् । मघवतोऽद्यापि बहुलं तान्तत्वे उक्तसूत्रं प्रमाणमित्यर्थः । मघवशब्दस्य उक्तसूत्रेण तृ इत्यन्तादेशस्य बहुलं विधानात्तस्य बहुलं तान्तत्वे तत्प्रमाणमिति भावः । अत्रोपपादितार्थस्थापनाय शब्दार्थतादात्म्यमूलकश्लेषोपष्टम्भेन उक्तसूत्रस्य प्रमाणताप्रदर्शनम् ॥