अनन्तरपद्यमिदं--
इति कुपितया श्रियोक्तं निरासवचनं किलानुकुर्वाणा । वीणा स्वरसमुदायैरतोषयद्रङ्गराजमतिरम्यैः ॥ २३६३ ॥
अपुनरुक्तव्यञ्जनचित्रम्
व्यञ्जनानां कखादीनां यत्रावृत्तिर्न दृश्यते ।
चित्रमेतद्विजानीयात्तदनावृत्तवर्णकम् ॥
यथा--
अथ ऋषभाचलकूटापीडेऽतिघृणाझरीबाढे । ओजःखच्छाये शठ मन इहि गोऽवे सदा ऋद्धे ॥
अथेति मङ्गळार्थकम् । "मङ्गळानन्तरारम्भप्रश्नकार्त्स्न्योष्वथो अथ" इत्यमरः । इदमव्ययं चादौ स्वरादौ च पठ्यते । तेन मङ्गळवाचकस्य सत्त्वार्थकत्वेऽप्यव्ययत्वं सिध्यति । अतएव श्रीहर्षः--
उदस्य कुम्भीरथ शातकुम्भजाः |
इति । अत्र हि अथ स्नपयांबभूवेत्यस्य मङ्गळस्नपनं चकारेत्यर्थः । निपातस्तु स्वरूपेणैव मङ्गळो मृदङ्गध्वनिवत् । न चात्र श्रीहर्षपद्ये अथेत्यस्यानन्तर्यमेवार्थः कुतो न स्यादिति वाच्यं,