पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२७२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
264
अलङ्कारमणिहारे

परं ब्रह्मेत्यर्थः । मम पापानि आस निरास्थत् । ‘असु क्षेपणे अस्माद्दैवादिकाल्लिट् । अत्र सरिगमपधनीति संगीतशास्त्रप्रतीतसप्तस्वरावबोधकवर्णैरेव श्लोकरचनेतीदमपि चित्रम् । अत्र ऋषभषड्जयोः रिवर्णसकाराभ्यामिव धैवतस्य धकारेणेव दकारेणाप्युच्चारणं गायकगोष्ठीप्रसिद्धमिति दकारधकारयोरुभयोरपि ग्रथनमिति ध्येयम् ॥

 यथावा ममैव रङ्गराजविलासे--

 मा माधा मम धामनि पदमास सदा गदारिदध सा सा । पापा निगदपदं परिगद मां मा मदरिमानिनीदास ॥ २३६२ ॥

 इदं पद्यं भगवन्तं रङ्गराजमाखेटकविहारोत्सवानन्तरमुपागतमन्यवधूसंगतमाशङ्कमानाया लक्ष्म्या उक्तिरूपं वीणयाऽनूदितम् । तथाहि--दधातीति दधः । गदारिणोः कौमोदकीसुदर्शनयोः दध गदाचक्रधारिन्नित्यर्थः । तस्य संबुद्धिः । मम धामनि गृहे पदं मा माधाः मा स्म निदधाः रोषसंभ्रमान्मा मेति द्विरुक्तिः । आङ्पूर्वकाद्धाञो लुङि ‘न माङ्योगे’ इत्यट्प्रतिषेधः । कुत ईदृशः कोप इत्यत्राह--आसेत्यादिना । सा सा पापा मम सपत्नीति भावः । असहनात्तन्नामाग्रहणम् । निगदस्य त्वद्वचसः पदं पात्रं आस । तत्सल्लाप एव तव हृद्यः । मां मा परिगदमया सह मा संभाषिष्ठा इति भावः । मा शब्दोऽयं न तु माङ् । अतो न लुङ् । त्वमेव खलु मम प्रेयसीति चाटुभिरयं मामनुनेष्यतीत्याशङ्क्य रोषातिभूम्ना संबोधयति— मदरिमानिनीदासेति । मत्प्रत्यर्थिललनाकिंकरोति तदर्थः । अत्रापि पूर्ववत् सरिगमपधनीति सप्तस्वरवर्णा एव निबद्धाः ॥