पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३४५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
333
निरुक्तिसरः (१०१)

‘शतकोटिस्स्वरुश्शम्ब' इत्यमरः । त्वां विजिगीषुस्सन् त्वन्नखैः भिन्नः विदारितः अतएव अन्वर्थाभिधः सुष्ठु अरुः यस्य सः स्वरुः बलवद्व्रण इति अन्वर्थसंज्ञकः अभवत् । ‘व्रणोऽस्त्रियामीर्ममरुः’ इत्यमरः । नृहरे इति दम्भोलिविभेदनक्षमनखशिखातैक्ष्ण्यातिशयाभिप्रायगर्भम् । अत्र स्वस्तरुः स्वस्तरुशब्दः परास्तः पराकृतः स्तः स्त इति वर्णो यस्य स तथोक्तः । अतएव स्वरुर्भूत्वा उक्तरीत्या स्वरुशब्दो भूत्वेत्यर्थोऽपि चमत्कारातिशयाधायकः । अत्र स्वरुरिति नाम्नो योगेनार्थान्तरपरिकल्पनं विषमालंकारसंकीर्णम् ॥

 यथावा--

 श्रीरुचिभारकचाकचिदूरधुतं कनकमीषदार्तमरौत् । तदिदं कार्तस्वरमिति गदितं कविभिरिति विदितमस्माभिः ॥ १९७६ ॥

 अरौत् अक्रन्दत् । ईषदार्तः कार्तः स्वरो यस्य तत्तथोक्तं 'ईषदर्थे’ इत्यनेन कोः का इत्यादेशः । अत्र कार्तस्वरमिति नाम्नः योगेनार्थान्तरकल्पनम् ॥

 यथावा--

 भ्रात्रा सह हरिहृदयं यान्त्या रत्नाकरो जनिनिकाय्यः । मुद्रित आसीद्रमया नूनं तदिमं जगुस्समुद्र इति ॥ १९७७ ॥

 भ्रात्रा कौस्तुभेन सह निर्गमनं जन्मगृहस्य रत्नाकरत्वं च मुद्रणावश्यकतां द्योतयतः । अत्र समुद्र इति नामधेयस्य योगेनार्थान्तरकल्पनम् । समुद्रशब्दः संपूर्वकात् 'उन्दी क्लेदने'