पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३४६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
334
अलङ्कारमणिहारे

इत्यस्माद्धातोः ‘स्फायितञ्चि' इत्यादिना रकि सिद्धः । समीचीनाः उद्राः जलजन्तुविशेषा अस्मिन्निति कैश्चिन्निष्पादितः । तस्य योगेनान्यदर्थकल्पनम् ॥

 यथावा--

 निजवदनरुचिजिहीर्षोस्सितद्युतेर्हरिरवद्यति स्म करान् । शुचिकरतयैष विदितोऽवदातकरतां कुतोऽन्यथा बिभृयात् ॥ १९७८ ॥

 करान् हस्तान् किरणानिति तु तत्त्वम् । अवद्यति स्म कृणत्ति स्म ‘दो अवखण्डने’ अस्माद्दैवादिकात्कर्तरि लट् । अन्यथा एवं करच्छेदाभावे शुचिकरतया परस्वापहरणदोषविरहेण शुद्धहस्ततया विशदकिरणतयेति | वस्तुस्थितिः । विदितः एषः अवदातकरतां अवकृतपाणितां शुक्लांशुतामिति परमार्थस्थितिः । ‘कृत्तं दातं दितं छितम्' इत्यमरः । द्यतेः कर्मणि क्तः । ‘आदेचः' इत्यात्वम् । शिष्टं स्पष्टम् । अत्रावदातकर इति सितकिरणतारूपप्रवृत्तिनिमित्तशालिनो नाम्न उक्तरीत्या योगेनार्थान्तरवर्णनम् ॥

 यथावा--

 निजमन्दहसितलक्ष्मीमुमुषिषयेन्दौ करान्प्रसारयति । तानसिनोत्सपदि हरिस्तेन स सितकर इति प्रथामयते ॥ १९७९ ॥

 असिनोत् अबध्नात् ‘षिञ् बन्धने' लङ् । सितकरः संदानितपाणिः । अत्र सितकर इति नाम्न उक्तरीत्या योगेनार्थान्तरप्रक्लृप्तिः ॥