पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
332
अलङ्कारमणिहारे

 इदमेकार्थकं पद्यद्वयमानुपूर्वीवैचित्र्यप्रदर्शनमात्रसारम् ‘विसारश्शकुली’ चेति मीनपर्यायेष्वमरः । अत्र उक्तप्रकारेण विसार इति मीननाम्नो योगेनार्थान्तरकल्पनम् ॥

 यथावा--

 हरिणा स्वरुचिजिहीर्षुर्घनः कपोलेऽभ्यहन्यत प्रायः । अस्य भ्रश्यन्ति रदाः करकमिषान्नीरदं तदाहुरमुम् ॥ १९७३ ॥

 निर्गळिताः रदाः दन्ताः यस्य स इति नीरदशब्दस्य योगप्रदर्शनेनार्थान्तरकल्पनम् ॥

 यथावा--

 तव यशसैवाच्युत भुवि पवित्रितायां स्वजन्मवैफल्यम् । जानाना विबुधधुनी जाता मन्दाकिनीति सार्थाख्या ॥ १९७४ ॥

 मन्दा अभाग्या अलसा वा अकिनी दुःखिनी ‘अकं दुःखे च पापे च' इति विश्वः । अत्र मन्दाकिनीति नाम्नो योगेनार्थान्तरकल्पनम् ॥

 यथावा--

 स्वस्तरुरुदारमणिना त्वया परास्तस्ततस्स्वरुर्भूत्वा । त्वां विजिगीषुस्त्वन्नखभिन्नोऽन्वर्थाभिधोऽभवन्नृहरे ॥ १९७५ ॥

 स्वस्तरुः कल्पशाखी उदारमणिना त्वया परास्तः औदार्येण निरस्तः ततः वैरशुद्धिविधानाय स्वरुः दम्भोळिः भूत्वा