पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३००

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
288
अलङ्कारमणिहारे

 "नलिनीदले बलाका मरकतपात्र इव दृश्यते शुक्तिः । इति मम संकेतभुवि ज्ञात्वा भावं तदाऽब्रवीदाळीम्” ॥

 इति प्राचीनपद्य इव--

 पश्यात्र निश्चलतमा मराळमालाऽमलाब्जमालेव । इत्याळीं काऽप्यवदच्छौरेस्संकेतभावमधिगम्य ॥ १८९२ ॥

 इत्यादिष्वस्मदीयपद्येष्वपि सूक्ष्मालंकार: प्रसरति । अत्र पद्ये तावत् आवयोः किं संकेतस्थानं भविष्यतीति प्रश्नाशयं सूचयति भगवति नन्दनन्दने तदभिज्ञया विदग्धया व्रजसुन्दर्या सखीं प्रति साकूतमुक्तमिति भवति सूक्ष्मालंकारः । यतोऽत्र हंसमालाया निश्चलतमपुण्डरीकमालिकोपमया तस्यास्तत्र निस्पन्दतया साश्वासत्वं तेन तस्य प्रदेशस्यातिमात्रविविक्तत्वं तेन तदेवावयोस्संकेतस्थानमिति तं प्रति सूचनं लक्ष्यते । न चात्र ध्वनिराशङ्कनीयः व्यङ्ग्यपरंपरया व्यज्यमानस्यापि संकेतस्थानप्रश्नोत्तरस्य स्वोक्त्यैवाविष्कृतत्वात् । एवं हि पिहितालंकारेऽप्युदाहार्यम् ॥

 इदं चान्यदत्रावधेयम्—-"तत इत इह संभ्रमतः । किं चिन्तयसे भद्रे । का त्वं का वा किं तव । पुरतो नन्दकिशोरे । स्वकरधृतं लिखिति नखैः” इत्यादिप्रागुपदर्शितगूढोत्तरसूक्ष्माद्यलंकारोदाहरणेषु भावो न स्वोक्त्याऽऽविष्कृतः । किंतु वस्तुसौन्दर्यबलाद्वक्तृबोद्धव्यविशेषविशेषिताद्गम्यः । तत्रैव वस्तुतो नालंकारत्वं, ध्वनिभावास्पदत्वात् । प्राक्तनैस्स्वोक्त्याऽऽविष्करणे सत्यलंकारास्पदताऽस्तीत्युदाहृतानि “यत्रासौ वेतसी पान्थ" इत्यादीनीति तदनुसारिभिरस्माभिरपि तथाविधान्युदाहृतानि पद्यानि । शक्यं ह्येषामुदाहरणानामुत्तरश्लोककल्पनया भावाविष्करणम् ॥