पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
287
व्याजोक्तिसरः (९०)

 यथा--

 प्रतिवातविलुलितं मम धम्मिल्लमिमं समीकुरुष्व सखि । इति यमुनातटकुञ्जादेत्य सखीं काऽपि गोपिकाऽलापीत् ॥ १८९० ॥

 अत्र नन्दनन्दनकृतस्वैरोपभोगविलुलितस्य धम्मिल्लस्य प्रतिवातविलुलितत्वव्याजोक्त्या गोपनम् । "छेकापह्नुतेरस्याश्चायं विशेषः-- तस्यां वचनस्यान्यधानयनेनापह्नवः, अस्यामाकारस्य हेत्वन्तरवर्णनेन गोपनमिति । लक्षणे लक्ष्यनाम्नि चोक्तिग्रहणमाकारस्य गोपनार्थं हेत्वन्तरप्रत्यायकव्यापारमात्रोपलक्षणम् । ततश्च--

आयान्तमालोक्य हरिं प्रतोळ्यामाळ्याः पुरस्तादनुरागमेका ।
रोमाञ्चकम्पादिभिरुच्यमानं भामा जुगूहे प्रणमन्त्यथैनम् ॥

 इत्यत्रापि व्याजोक्तिरेव । अत्र ह्यनुरागकृतस्य रोमाञ्चाद्याकारस्य भक्तिरूपहेत्वन्तरप्रत्यायकेन प्रणामेन गोपनं कृतम्” इति कुवलयानन्दे दीक्षिताः । ततश्च--

 यमुनातटकुञ्जाद्व्रजमुपयान्ती केतकीस्तबकहस्ता । न्ववपुषि शौरिनखक्षतमगूहत स्वैरकेळिजं गोपी ॥ १८९१ ॥

 इत्यत्रापि तन्मते व्याजोक्तिरेव । अत्र हि स्वैरकेळिप्राप्तस्य भगवन्नखविलेखनरूपाकारस्य कण्टकप्रचुरकेतकीनिकुञ्जप्रवेशरूपहेत्वन्तरप्रत्यायकेन तत्कुसुमस्तबकग्रहणेन गूहनं कृतम् । वस्तुतस्तु अत्र युक्त्यलंकार एवेति युक्त्यलंकारनिरूपणावसरे वक्ष्यते । सूक्ष्मपिहितालंकरयोरपि चेष्टितग्रहणमुक्तिसाधारणव्यापारमात्रोपलक्षणम् । ततश्च--