पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२९८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
286
अलङ्कारमणिहारे

इत्युदाहरणयोर्लक्षणसत्तामुपपादयन्तः पिहितनामानमलंकारान्तरं नानुमेनिरे । युक्तं चैतत्--अलंकारान्तरकल्पनावैचित्र्यहेतोस्साकूतचेष्टितविन्यसनस्य भेदाभावे आशयवृत्तान्तरूपप्रकाश्यभेदमात्रेण भेदानुपपत्तेरिति वदन्ति । अत्र 'यत्सूक्ष्मस्यार्थस्य संलक्षणमात्रं प्रकाशनमात्रं वाऽप्ययमेवालंकारः' इत्यलंकारभाष्यकाराशयं व्यवृणुत विमर्शिनीकारः । तदेदमुदाहरणम्--

 लीलासदनकवाटे लोलेऽपाङ्गे पयोधिबालायाः । वल्लभमात्रसहाया यथा रमा स्यात्तथाऽभवन् सख्यः ॥ १८८९ ॥

 अत्र सखीभिः श्रियो वल्लभोपभोगौत्सुक्यं संलक्षितं केळीगृहकवाटे कटाक्षविसारणेन प्रकाशितं चेत्युभयार्थसहितत्वम् । तदेवमादौ सुक्ष्मालंकार एव वाच्यः, सूक्ष्मस्यैवार्थस्य संलक्ष्यमाणत्वादिनाऽवस्थानात् । यद्यपि संलक्षितमात्रमपि लक्ष्म्या औत्सुक्यं सखीभिर्विविक्ततया बहिर्निर्गमनेन चेष्टितेन प्रकाशितम् । तथाऽपि सखीनां तदौत्सुक्यसंलक्षणमात्रमेवात्र चमत्कारि । न तु सखीबहिर्निर्गमनचेष्टितमित्यस्यालंकारतोल्लासः ॥

इत्यलंकारमणिहारे पिहितसर एकोननवतितमः.


अथ व्याजोक्त्यलङ्कारसरः (९०)


हेत्व तरोक्त्या व्याजोक्तिर्यदाकारस्य गूहनम् ॥

 निगूढस्य वस्तुनः केनचित्प्रकटतां गतस्य हेत्वन्तरोक्त्या यद्गोपनं तत् व्याजोक्तिर्नामालंकारः ॥