पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२४४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
232
अलङ्कारमणिहारे

 सुश्लिष्टाः संधयः संधिबन्धाः यस्य तादृशो विग्रहो यस्य तम् । अनेन वक्ष्यमाणमुनिजनमानसाकर्षकस्सौन्दर्यातिशयस्सूचितः । यथोच्यते--

अङ्गप्रत्यङ्गकानां स्यात्संनिवेशो यथोचितम् ।
सुस्निग्धसन्धिबन्धो यस्तत्सौन्दर्यमितीर्यते ॥

 इति । इभपतेः यानमिव यानं यस्य तम् । शरासनसनाथं रामं अभिवीक्ष्य मुनयः तेन रामेण सह अद्वैधं गाढालिङ्गनेनैकीभावं प्रेप्सन्तस्सन्तः । तं आश्रयन् दण्डकारण्यं प्रविष्टस्य भगवतो दाशरथेस्सौन्दर्येण मोहिताः वनिता इव मुनयस्तमालिङ्गितुमुत्सुका बभूवुरिति पद्मपुराणकथाऽत्रानुसंधेया । यद्वा तेन अद्वैधं अविवादं प्रेप्सन्तस्तमाश्रयन् 'अविवादस्तु तस्यैव पदयोरात्मनोऽर्पणम्’ इत्युक्तरीत्या तच्चरणारविन्दे अत्मरक्षाभरार्पणमभीप्सन्त आश्रयन्नित्यर्थः । अत्र ‘संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः' इति प्रसिद्धसहपाठानां संध्यादीनां क्रमेण षण्णां न्यसनम् ॥

 यथावा--

 सुरभीतिहरभुजोष्मा शरवर्षासारविशमिताशरदावः । परमहिमानीको यो दिशिदिशि शिरसा नमामि तं दाशरथिम् ॥ १७९४ ॥

 यः सुरभीतिहरः भुजोष्मा बाहुप्रतापः यस्य शरवर्षासारः बाणवर्षासार एव जलवर्षासार: तेन विशमितः आशराः निशिचरा एव दावा यस्य परमहिमा अनीकः सैन्यं यस्य पक्षे परमा हिमानी हिमसंहतिः यस्य सः परमहिमानीकः । ‘नदृयतश्च' इति कप् । तं दाशरथिं दिशिदिशि शिरसा नमामि 'नमः