पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
233
रत्नावळीसरः (७७)

पुरस्तादथ पृष्ठतस्ते नमोनमस्सर्वत एव सर्व’ इत्युक्तप्रक्रियया प्रतिदिशं प्रणमामीत्यर्थः । अत्र सुरभीत्यादिपदैकदेशैः ऊष्मेत्यादिशब्दश्लेषेण च वसन्तादीनां षण्णामृतूनां क्रमेण वर्णनम् ॥

 यथावा--

 सृष्ट्यादिकर्मकर्ता करणनियन्ता त्वया विनाऽच्युत कोऽन्यः । सकलशुभसंप्रदानं कुरुते पादानताधिकरणहतिं च ॥ १७९५ ॥

 हे अच्युत ! सृष्ट्यादीनां जगत्सर्जनादीनां कर्मणां कर्ता अनेन ‘यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य चैतत्कर्म स वै वेदितव्यः' इति श्रुतिः प्रत्यभिज्ञाप्यते । करणानां इन्द्रियाणां नियन्ता ‘श्रोत्रस्य श्रोत्रम्' इत्यादिश्रुतेः । पादानतानां चरणप्रणतानां आधिः मनोव्यथा तस्य करणाः कर्तार: करणानि साधनानि वा तेषां हतिं क्षतिं, सकलशुभसंप्रदानं तेषामेव सर्वकल्याणवितरणं च । आभ्यामिनिष्टनिरासेष्टप्रापणे अभिहिते । त्वया विना कोऽन्यः कुरुते इति योजना । अत्र--

कर्म कर्ता च करणं सप्रदानं तथैव च ।
अपादानाधिकरणे इत्याहुः कारकाणि षट् ॥

 इति शाब्दिकोक्तानां षण्णां कारकाणां क्रमेण न्यसनम् ॥

 यथावा--

 लवणाशाली क्षुभितासुरेन्द्रराज्योदधीशभुजदण्डः । नलिनाक्षीराजितहृज्जलजाक्षो जयतु सप्तभुवननिधिः ॥ १७९६ ॥

 ALANKARA__III.
30