पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२४३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
231
रत्नावळीसरः (७७)

 सुकलः दाता भोक्ता च ‘सुलको दातृभोक्तरि’ इत्यमरः । भयं स्वस्य स्वाश्रितानां च त्रासं हर्तुं क्षमः शक्तः भीताभयदातेत्यर्थः । भानुमदंशुभिः श्रीमत् उज्ज्वलं यत्सरसिजं तदिव लोचनं यस्य तस्य संबुद्धिः । अत्र कामक्रोधलोभमोहमदमत्सराणां षण्णां क्रमेण न्यास इति पूर्वोभ्यो विच्छित्तिशालिनीयम् ॥

 यथावा--

 काममवक्रो धर्मैर्विमलो भगवन् भवेत्तमोहतिशीलः । श्रमदमन नमत्सरसिजभव तव भक्तो जितारिषड्वर्गश्च ॥ १७९२ ॥

 श्रमदमनः सांसारिकखेदविमोचनः तस्य संबुद्धिः । नमन् सरसिजभवः ब्रह्मा यस्य सः तस्य संबुद्धि: हे भगवन् ! तव भक्तः कामं अवक्रः अकुटिलशीलः । धर्मैः सामान्यैर्विशेषैश्च धर्मैः विमलः निर्मलः ‘धर्मेण पापमपनुदति’ इति श्रुतेः । अतएव तमसः तमोगुणस्य हतिः निरासः तस्यां शीलं यस्य स तथोक्तः । जितः अरिषड्वर्गः कामादिः येन स तथोक्तश्च भवेत् ।

न क्राधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥

 इत्युक्तेरिति भावः । अत्रापि प्रकारान्तरेण कामक्रोधादीनामेव क्रमेण ग्रथनम् । ईदृशविशेषरूपसूच्यार्थस्य जितारिषड्वर्ग इत्यनेन सूचनान्मुद्रा चेति विशेषः ॥

 यथावा--

 सुश्लिष्टसंधिविग्रहमिभपतियानं शरासनसनाथम् । राममभिवीक्ष्य तेन प्रेप्सन्तोऽद्वैधमाश्रयन्मुनयः ॥ १७९३ ॥