पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१९५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
183
उल्लाससरः (७१)

 यथावा--

 घनसारस्स्मितदास्यात्तवाघवान्प्राङ्नसार एवाम्ब । कथमप्यनोऽथ सारो रसानधश्वास सकलविपरीतः ॥ १७१३ ॥

 हे अम्ब! घनसारः कर्पूरः तव स्मितदास्यात् प्राक् मन्दहसितदास्यलाभात्पूर्वं अघवान् दास्यालाभप्रयुक्तदुःखवान् 'अंहोदुःखव्यसनेष्वघम्' इत्यमरः । अतएव नसार एव । असार एव नशब्देन नञर्थकेन समासः । कथमपि अतिप्रयासेन अनितीत्यनः 'अन प्राणने' पचाद्यच् । जीवन्नित्यर्थः । अथ स्मितदास्यलाभानन्तरं सकलविपरीतः पूर्वोक्ताघवत्त्वादिसर्वगुणविपर्यासं गतस्सन् रसानघः रसायां भुवि अनघः रसेन अनघश्च सन् सारः श्रेष्ठः बलवान्वा आस दिदीपे । अस्यतेः दैवादिकाद्दीप्त्यर्थकाल्लिट् । अघवत्त्वनसारत्वयोर्वैपरीत्येन सारो रसानघश्चेति सारत्वरसानघत्वयोः प्रतिद्वंद्विनोर्न्निर्देशः । पक्षे घनसारशब्दः प्राक् प्रथमं घवान्न भवतीत्यघवान् घवर्णविधुरस्सन् नसार एव नसार इति संपद्यमानः अथ अनः नवर्णरहितः सार इति निष्पन्नः । एवं वर्णवैकल्यहेतुकं शब्दस्वरूपमुक्तम् । अथ सर्ववर्णसाकल्येन वैपरीत्ये शब्दस्वरूपमाह-- अथेति । अथ सकलविपरीतः वर्णवैकल्याभावेन विलोमपठितसर्ववर्णः रसानघ इति निष्पद्यत इत्यर्थः । अत्र श्रीस्मितगतधावळ्यतापहारित्वादिगुणेन घनसारस्य तदलाभमूलकाघवत्त्वरूपदोषः । तद्दास्यलाभप्रयोज्यसारत्वादिगुणश्चेत्युभयं पूर्वोदाहरणेभ्यो वैलक्षण्येन निबद्धम् । शब्दार्थतादात्मादिचमत्कृतिस्तु व्यक्तैव ॥