पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१९६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
184
अलङ्कारमणिहारे

 यथावा--

 अम्ब प्राक्त्वददृष्टेरमरकदम्बमपि विष्टपत्यक्तम् । नष्टमधुना त्वनन्तोदयं तव दयादृशा विपत्यक्तम् ॥ १७१४ ॥

 हे अम्ब ! प्राक् पूर्वं अमरकदम्बमपि किमुत मर्त्यकदम्बमिति भावः । त्वददृष्टेः त्वत्कटाक्षालाभाद्धेतोः विष्टपेन त्यक्तं विष्टपं त्यक्तं येन तत्तथोक्तमिति । विसृष्टस्वस्वभुवनावस्थानमिति यावत् । नष्टं क्वाप्यदर्शनं प्राप्तं निलीनमित्यर्थः । अधुना तु तव दयादृशा विपत्त्यक्तं आपदा परित्यक्तम् । न केवलमनिष्टनिरास एव, किंत्वतिवेलमिष्टलाभश्चास्येत्याह--अनन्तोदयं अपरिच्छिन्नसर्वविधाभ्युदयं च भवति । अत्र--

त्वया देवि परित्यक्तं सकलं भुवनत्रयम् ।
विनष्टप्रायमभवत्त्वयेदानीं समेधितम् ॥

 इति श्रीविष्णुपुराणानुसारिणा ‘ईषत्त्वत्करुणनिरीक्षणसुधासंधुक्षणाद्रक्ष्यते नष्टं प्राक्तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम्' इति श्रीयामुनार्यश्रीसूक्तिरनुसंहिता ॥

 पक्षे विष्टपत्यक्तमिति पदं नष्टं न विद्यते ष्ट इति वर्णः यस्य तत् नशब्दपूर्वको बहुव्रीहिः । भ्रष्टष्टवर्णं सत् विपत्यकं विपत्यक्तमिति पदं अनन्तात् शेषावतारात्पतञ्जलेः उदयः आविर्भावो यस्य तत्तथोक्तं भवति । सर्वेषामपि शब्दानां तन्निष्पादितत्वादिति भावः । अत्र श्रीकटाक्षमहिमगुणेन तदविषयस्यामरकदम्बस्य विष्टपत्यागादिदोष इत्येक उल्लासः, तत्कटाक्षमहिमगुणेन तद्विषयस्य तस्य विपत्तिपरित्यागादिगुण इत्यन्य उल्लासः पूर्ववदेव ॥