पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१९४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
182
अलंकारमणिहारे

भावः 'आयुः क्षिणोत्युपचिनोति च सर्वदोषान्द्वेषो मुकुन्दविषयो विषयोगतुल्यः' इत्युक्तेः । भगवदुपगतः पूर्णायुर्वर्धते तदपगतस्तु ऊर्णायुरिव वध्यत इति संपिण्डितोऽर्थः । पक्षे पूर्णायुश्शब्दोऽपि पस्य पकारस्य गतिः प्राप्तिः न पगतिः अपगतिः तस्यां पकारराहित्ये इत्यर्थः । ऊर्णायुस्सन्वध्यते बवयोरभेदात् बध्यते पदसमुदाये ग्रथ्यत इत्यर्थः । इवशब्दो वाक्यालंकारे । अत्र भगवतस्सकलफलप्रदत्वादिगुणेन तत्प्रपन्नस्य पूर्णायुष्ट्वगुणाधानं तदपगत्या तदन्यस्य ऊर्णायुवद्वध्यत्वरूषदोषाधानं च निबद्धम् । उपमासंकीर्णत्वं विशेषः ॥

 यथावा--

 तव पदि लग्ना जनता पूर्णा लक्ष्येत सर्वथाऽपि हरे । पूर्णाऽपि पच्च्युता चेदूर्णालक्ष्या भवेन्न सन्देहः ॥ १७१२ ॥

 हे हरे! तव पदि लग्ना त्वच्चरणे सक्ता जनता सर्वधा सर्वप्रकारेणापि पूर्णा सती लक्ष्यते जनैरिति शेषः । तव पच्च्युता पदः चरणात् च्युता जनता स्वतः पूर्णाऽपि ऊर्णालक्ष्या ऊर्णेव मेषादिलोमेव अलक्ष्या अनादरणीया भवेत् । यद्वा ऊर्णा तत्प्राया लक्ष्या दृश्या भवेत् । 'ऊर्णा मेषादिलोम्नि स्यात्’ इत्यमरः । पक्षे पूर्णाऽपि पूर्णेति शब्दव्यक्तिरपि पच्च्युता पकारेण च्युता । पः पकारः च्युता यस्या इति घा’ पकारविधुरा सती ऊर्णा ऊर्णेत्यानुपूवीमती लक्ष्या दृश्या भवति । अत्र भगवतो माहात्म्यगुणेन तत्पदलग्नाया जनतायाः पूर्णायुष्ट्वलक्षणगुणाधानम् । तादृशमहिमवत्त्वं भगवतो गुणः । तेन तत्पादच्युतिहेतुकोर्णालक्ष्यत्वरूपो दोष इत्युभयं पूर्वेभ्यो विच्छित्तिशालि ॥