पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/८१

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
71
श्लेषसरः (२८)

तरेत्यादि । बह्वीशब्दात्तयोः परयोर्नित्यं ह्रस्वे बह्वितरा बह्विकल्पेति रूपमित्यवहितहृदयैस्सहृदयैश्शब्दविदग्रणीभिर्विभावनीयम् ॥

 यथावा--

 कदशनभुगसूपगतः प्राक्त्वत्पदविदथ भवति यो राजा । अन्नन्तस्यास्य पुनर्नसूपलुप्तं सदाऽपि भवति हरे ॥ ८५८ ॥

 हे हरे! प्राक् त्वच्चरणशरणागतेः पूर्वं यः पुमान् कदशनं कुत्सितान्नं भुङ्क्त इति कदशनभुक् सन् असूपगतः असुभिः प्राणैः उपगतः असवः उपगताः येनेति वा । कदन्नाभ्यवहारेणैव प्राणान् धारयितेति भावः । यद्वा - असूपगतः कदशनभुगिति योजना । सूपं गतस्सूपगतः ‘द्वितीया श्रित’ इत्यादिना समासः । स न भवतीत्यमुपगतः कदशनभुक् कदन्नभोक्ता भवति व्यञ्जनादिदविष्ठयावनाळादिगर्ह्यान्नभोजी भवतीत्यर्थः । अथ त्वत्पदवित् तव पदे चरणे विन्दति प्राप्नोतीति तथोक्तः । त्वच्चरणप्रपन्नस्सन्नित्यर्थः । राजा भवति । तस्यास्य आदौ कदशनभोक्तुः ततो भगवदनुग्रहाधिगतराजभावस्येत्यर्थः । अन्नं पुनः ओदनं तु सदाऽपि न सूपलुप्तं लुप्तसूपं न भवति । सूपेत्युपलक्षणमुपसेचनान्तरस्यापि । मृष्टान्नभोक्तृत्वं भवतीत्यर्थः । अन्नन्तस्येत्यत्रानुस्वारस्य ‘वा पदान्तस्य’ इति वैकल्पिकः परसवर्णः अर्थान्तरे शब्दैकरूप्यायेति ध्येयम् ॥

 पक्षे-- यः कदशनभुक्छब्दः प्राक्छब्द त्वत्पदविच्छब्दश्च सुना सुप्रत्ययेन उपगतो न भवतीत्यसूपगतः भवतीति प्रत्येकं योज्यं ‘हल्ङ्याभ्यो दीर्घात्सुतिस्यपृक्तं हल्' इत्यनेन लुप्तसुप्र-