पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
72
अलंकारमणिहारे

त्ययो भवतीत्यर्थः । अथ अथ च किंचेत्यर्थः । ‘अथ समुच्चये । मङ्गळे संशयारम्भाधिकारानन्तरेषु च । अन्वादेशे प्रतिज्ञायां पश्चात्साकल्ययोरपि' इति हेमचन्द्रः । यो राजा भवति राजेतिशब्दा विद्यते । अन्नन्तस्य अन्निति वर्णसमुदयोऽन्ते यस्य तथोक्तस्य अस्य पुनः राजन्शब्दस्य तु सदाऽपि नित्यमपि नसूपलुप्तं न सु इत्यनयोर्वर्णयोः उपलुप्तं लोप इत्यर्थः । लुम्पतेर्भावे क्तः । भवति ‘हल्ङ्याभ्यः’ इति सुलोपः 'नलोपः प्रातिपदिकान्तस्य’ इति नलोपश्च भवतीत्यर्थः । यद्वा-- अथेत्येतन्नसूपलुप्तमित्यत्रान्वेति । साकल्येन सुप्रत्ययनकारयोर्लोपो भवतीत्यर्थः । अस्य पुनरित्यनेन कदशनभुगादिशब्दापेक्षया वैलक्षण्यं सूचितम् । तेषां सुप्रत्ययमात्रलोपः अस्य तु नकारस्यापि लोप इति वैलक्षण्यं बोध्यम् । अत्र भगवच्चरणारविन्दप्रपन्नस्य प्रकृतस्य कदशनभुगादिशब्दस्याप्रकृतस्य च श्लेषः ॥

 यथावा---

 अप्प्रत्ययो भवति चेत्स्वयं भुवि रमेश भवति भव एव । कथमघवतोऽस्य भावो वृद्धिं प्राप्तो भवेत्साध्वीम् ॥ ८५९ ॥

 अत्र भगवदप्रत्ययितस्य पुंसः प्रकृतस्य अप्प्रत्ययान्तस्य भूधातोरप्रकृतस्य च श्लेषः । तथाहि-- हे रमेश! स्वयंभुवि कारणान्तररहिते सर्वकारणभूते इत्यर्थः । 'प्रभुर्मनीषी परिभूः स्वयंभूः' इति श्रुतेः । भवति त्वयि अप्प्रत्ययः अविश्वासश्चेत् भव एव भवति । त्वयि महाविश्वासोपलक्षितमात्मरक्षाभरमनर्पयितुस्संसारो दुस्त्यज इति भावः । यद्वा-- स्वयंभुवि भवति