पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/८०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
70
अलंकारमणिहारे

स्यात् । यतो घरूपकल्पबादिपरकत्वे 'नद्याश्शेषस्यान्यतरस्याम्’ इत्यङ्यन्तनद्या ङ्यन्तैकाचश्च विहितो ह्रस्वविकल्पः 'कृन्नद्या न’ इति निषिध्यते । लक्ष्मीशब्दश्च कृन्नद्यन्तः ‘लक्षेर्मुट्च' इत्यौणादिकसूत्रेण लक्षधातोरीप्रत्ययविधानात् । तस्य च ‘यूस्त्र्याख्यौ नदी’ इति नदीसंज्ञकत्वात् । श्रीशब्दस्तु ‘नेयङुवङ्स्थानावस्त्री' इति निषेधेनानद्यन्तत्वात्तदविषय एव । एवंच लक्ष्मीकल्पा श्रीकल्पेति दीर्घघटितमेव रूपं भवति, न तु लक्ष्मिकल्पा श्रिकल्पेति ह्रस्वघटितम् । विशेषान्तरमप्याह-- भान्तीत्यादिना । अपीत्यस्य अपिचेत्थर्थः । भान्ती भान्तीशब्दः तरप्प्रसक्ता । तरप् तरप्प्रत्ययः प्रसक्तो यस्यां सा तथोक्ता, तरप्प्रत्ययान्तेति यावत् । कल्पान्तगतत्वे च उक्त एवार्थः । अन्ते वाह्रस्वा विकल्पेन ह्रस्वा स्यात् ह्रस्वशब्दात् मत्वर्थीयः, अर्श आद्यच् । ह्रस्वान्ता भवेदित्यर्थः । ‘उगितश्च’ इति घरूपकल्पादिपरकत्वे ह्रस्वस्य विकल्पेन विधानादिति भावः । उगिदन्तश्चायं भान्तीशब्दः । किंच सा भाषितपुंस्कत्वेन ङ्यन्तत्वेनानेकाच्त्वेन च प्रसिद्धेति भावः । बह्वी बह्वीशब्दः तरप्रसक्ता सती कल्पान्तगतत्वे वा अन्ते नियतं ह्रस्वा स्यात् नित्यं ह्रस्वान्ता स्यादित्यर्थः । ‘घरूपकल्पचलड्ब्रुवगोत्रमतहतेषु ङ्योनेकाचो हस्वः' इत्यनेन सूत्रेण नित्यं ह्रस्वविधानादिति भावः । 'भाषितपुंस्कात्परो यो ङीप् तदन्तस्यानेकाचोऽङ्गस्य ह्रस्वस्स्यात् घरूपकल्पप्रत्ययेषु परेषु चेलडादिषूत्तरपदेषु च' इति सूत्रार्थः । घेति तरप्तमपोस्संज्ञा ‘तरप्तमपौ घः’ इति संज्ञाविधानात् । एवंच भान्तीशब्दोत्तरप्कल्पपोः परयोः ह्रस्वविकल्पाद्भान्तितरा भान्तिकल्पेति रूपं, हृस्वाभावपक्षे–- ‘तसिलादिषु' इति पुंवद्भावेभात्तरा भात्कल्पेत्येवरूपं न तु भान्ती-