पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/५२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
42
अलंकारमणिहारे

अत्वन्तत्वाभावादुक्तदीर्घाप्राप्तेरिति भावः । अत एव हि भवन्नित्यत्र ‘शत्रन्तस्य तु अत्वन्तत्वाभावान्न दीर्घः' इति कौमुदीग्रन्थः । यद्वा-- न नु मागमत इति छेदः। अस्मिन् प्रकृते भजच्छब्दे विद्यमानः शतेत्यनुषज्यते । शता शतृप्रत्ययः मागमतः मुगागमसंबन्धिमकारागमतः विशेषभाक् न भवति नु । शानचि विहितस्य ‘आने मुक्’ इति मुगागमस्य शतर्यप्रसक्तेस्तत्प्रयुक्तं वैलक्षण्यं न भजतीत्यर्थः । नन्वित्यवच्छेदे वा । मागमतः विशेषभाक् भवति ननु । नन्विति प्रश्ने वा । न भवत्येवेति भावः । इतोऽपि प्राथमिकी व्याख्यैव स्वारसिकीति सावधानैरिदमनुसन्धेयम् ॥

 यथावा--

 हन्तातोऽनुपसर्गे को भवति प्रत्ययोऽथ सुखदश्च । जाग्रत्यधिपे तस्मिन्नत्रातश्चोपसर्ग इति कस्स्यात् ॥ ८४२ ॥

 अत्र प्रकृतस्य भगवतः अप्रकृतस्य वक्ष्यमाणसूत्रद्वयस्य च श्लेष । हन्तेति वक्षमाणार्थपर्यालोचनजमितहर्षे । वाक्यारम्भे वा । अनुपसर्गे जगतामुपद्रवनिवर्तने विषये इति यावत् । 'उपसर्ग उपद्रवे । प्रादौ च रोगभेदे च' इति हेमचन्द्रः । प्रत्ययः हेतुः 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । सुखदश्च संपत्प्रयुक्तसौख्यदायकश्च । अतः अकारवाच्याद्भगवतः, प्रस्तुतादस्माद्वा को भविता जगतां विपदपाकरणे सुखवितरणे च भगवतोऽस्मादन्यः को हेतुर्भवेदित्यर्थः । तस्मिन् अधिपे ‘एष भूताधिपतिरेष भूतपालः' इति श्रुते सर्वजगन्नेतरि सर्वजगदवितरि भगवति जाग्रति सति उपसर्गे विपदि