पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/५१

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
41
श्लेषसरः (२८)

 धातुपक्षे-- फणीशगिरि पतञ्जलिवाचि महाभाष्ये भवनः सत्तां लभमानः भवतेर्नन्द्यादित्वात्कर्तरि ल्युः, बाहुलकाल्लुड्वा कर्तरि । व्याकरणे पठित इति यावत् । दधातिस्पष्टमित्यत्र दधातिरिति छेदः । 'शर्परे खरि वा विसर्गलोपः' इति पाक्षिको विसर्गलोपः । दधातिः धाञ्धातुः श्तिपा निर्देशोऽयम् । क्तेन क्तप्रत्ययेन सह वर्तत इति सक्तस्सन् स्पष्टं हिततां हितं इति रूपं भजति प्राप्नोति । धाञः क्तप्रत्यये ‘दधातेर्हि:’ इति ह्यादेशविधानादिति भावः । अस्मिन् धाञ्धातावेव शता लटो विहितश्शत्रादेशः स्वौजसि सुश्च औश्च जश्चत्येतेषां समाहारः स्वौजस् तस्मिन् परे परतो विद्यमाने सति । न नुमागमत इति छेदः । नुमागमतः ‘उगिदचां सर्वनामस्थानेऽधातोः' इति विहितान्नुमागमात् विशेषभाक् नकारसाहित्येन वैलक्षण्यभाक् न भवति । ‘नाभ्यस्ताच्छतुः' इति तस्य नुम्निषेधादिति भावः । यद्वा-- फणीशगिरिभवेति संबुद्ध्यन्तं पदम् । न इति पृथक्पदम् । फणीशगिरि पातञ्जलभाष्ये विषये जात! ‘गोषु प्रसूत' इत्यादौ गा एवानुभवितुं जातेतिवत् महाभाष्यमेवाध्येतुं प्रसूतेति कंचिच्छात्रं प्रति केनचिच्छाब्दिकेनाचार्येण कृतं संबोधनम् । भजति भजच्छब्दे सक्तः संबद्धः शता शत्रादेशः स्वौजसि परे सति नः नुमागमसंबन्धिनकारस्य हिततां अनुकूलतां दधाति धत्ते ‘उगिदचाम्' इत्यादिना नुमागमविधानादिति भावः । उत्तरार्धे-- न नुम् आगमत इति पदत्रयम् ।

अस्मिन् पूर्वोक्ते शतरि नुम् नुमागमः आगमतः आ इत्याकारकवर्णस्य आगमतः गमतो वा । यथासंभवं सुप्रत्यये परे 'अत्वसन्तस्य चाधातोः' इति विहितदीर्घसंबन्धादित्यर्थः । विशेषभाक् वैलक्षण्यभाक् न भवति । शत्रन्तस्य अदन्ततया

 ALANKARA II
6