पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/५३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
43
श्लेषसरः (२८)

अत्रातः अरक्षित इति च कः स्यात् सति भगवति रक्षितरि अपिनाम कश्चिदरक्षित इति च विद्येतेति भावः । अत्र--

न संपदां समाहारे विपदां विनिवर्तने ।
समर्थो दृश्यते कश्चित्तं विना पुरुषोत्तमम् ॥

इत्यादिप्रमाणार्थोऽनुसंहितः ॥

 पक्षे-- 'आतोऽनुपसर्गे कः, आतश्चोपसर्गे’ इति सूत्रद्वयार्थस्सोदाहरणो द्रष्टव्यः । तथाहि-- आतः आकारान्ताद्धातोः अनुपसर्गे अनुपसर्गादिति पञ्चम्यन्ततया विपरिणामः कर्मणीत्यनुवर्तते । कर्मण्युपपदे कः प्रत्ययः भवतीति सूत्रार्थः। उदाहरणमाह-- अथेति । अथ सुखदश्च भवति । सुखं ददातीति सुखद इति सुखशब्दे कर्मण्युपपदे अनुपसृष्टाद्दाधातोः कप्रत्ययेन निष्पन्नत्वात्तस्येति भावः । किंच तस्मिन् प्रसिद्धे अत्र अस्मिन् बुद्धिस्थे जाग्रति प्रकाशमाने अधिपे अधिपशब्दे ‘आतश्चोपसर्गे’ इति कस्स्यात् । आतः आकारान्ताद्धातोः उपसर्गे अधीत्याकारकोपसर्गे उपपदे कप्रत्ययस्स्यादिति तदर्थः । अत्र पद्ये ‘आतोऽनुपसर्गे कः, आतश्चोपसर्गे' इति सूत्रानुपूर्व्येव घटितेति ध्येयम् ॥

 यथावा--

 एष त्वच्चरणलिहश्शेषमहीध्रोगुणोत्तरो भाति । केनास्य गुणनिषिद्धिश्रीनाथ कृता श्रुता दृष्टा ॥

 अत्र भगवच्चरणलिहस्य शेषमहीध्रस्य प्रकृतस्य तद्वाचकशब्दयोरप्रकृतयोश्च श्लेषः। तथाहि-- हे श्रीनाथ! एषः शेषमहीध्रः त्वच्चरणौ लेढीति त्वच्चरणलिहः त्वत्पादपद्मस्पर्शीति