पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
39
श्लेषसरः (२८)

दिश्रुतेः । ननु मागमत इतिच्छेदः । मायाः श्रियः आगमतः संबन्धात् विशेषभाग्भवति ननु । भगवतश्श्रीनिवासस्य स्वाभाविकमैश्वर्यं परिमळादिव हेमारविन्दं श्रीसंबन्धादाम्रेडितवैभवं भवत्येवेत्यर्थः । ननुरवधारणे । उत्तरार्धेन परत्वं पूर्वार्धेन सौलभ्यं च दर्शितम् । यद्वा उत्तरार्धस्यैवमर्थः-- स्वं ओजः यस्य तस्मिन् स्वौजसि स्वप्रकाशस्वरूपे अस्मिन् श्रीनिवासे विद्यमाना ईशता ऐश्वर्यम् । अनुमागमत इति समस्तं पदम् । अनुमा अनुमानं स्मृतिः आगमः श्रुतिः तयोः अनुमागमतः 'आद्यादिभ्यः' इति सार्वविभक्तिकस्तसिः । परा दूरा ‘यतो वाचो निवर्तन्ते' इत्यादिश्रुतेः तदविषय इत्यर्थः । ‘परं दूरान्यमुख्येषु परोऽरिपरमात्मनोः’ इति वैजयन्ती । यद्वा-- अनुमागमतः श्रुतिस्मृतिभ्यां उक्तेत्यध्याहारः परेशता पारमैश्वर्यं अविशेषभागितिच्छेदः । अविः शैलः ‘अवयश्शैलमेषार्काः' इत्यमरः । स चासौ शेषश्च अविशेषः शैलाकारभाक् शेषः शेषाद्रिरित्यर्थः । तं भजतीति तथोक्ता भवति । परस्मिन् ब्रह्मणि विद्यमानं पारमैश्वर्यं सर्वमपि शेषाद्रावेव चकास्ति तस्यात्राविर्भावादिति भावः । अस्मिन् पक्षे उत्तरार्धेनैव क्रमेण परत्वसौलभ्योक्तिः । यद्वा-- स्वौजसि स्वमहिमप्रतिष्ठिते ‘ओजो बले प्रभावे च' इत्यमरः । भूमविद्यायां ‘सभगवः कस्मिन् प्रतिष्ठितः’ इति प्रश्ने ‘स्वे महिम्नि ’ इत्युत्तरश्रवणात्--

रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ।
ब्रह्मा मामाश्रितो राजन्नाहं कं चिदुपाश्रितः ॥
ममाश्रयो न कश्चित्तु सर्वेषामाश्रयो ह्यहम् ॥

इति स्मृतेश्च । अस्मिन् भगवति अनुमागमतः श्रुतिस्मृतिभ्यां प्रतिपादितेत्यर्थः । परेशता उक्तोर्थः । शेषाः दासभूताश्चेतनाः तान्