पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/५०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
40
अलंकारमणिहारे

भजतीति शेषभाक् विशिष्य शेषभाक् विशेषभाक् सा न भवतीत्यविशेषभाक् भवति । परस्मिन् ब्रह्मणि तस्मिन् श्रुतिस्मृतिभ्यामुद्घोषितं सर्वशेषित्वं तच्छेषभूतेषु ब्रह्मरुद्रादिषु नित्यसिद्धेष्वनन्तगरुडादिषु वा न संभवतीति भावः । यद्वा न नु मा आगमतः इतिच्छेदः। परा श्रेष्ठा ईशता ऐश्वर्यं यस्यास्सा परेशता । मा श्रीः । स्वौजसि उक्तोऽर्थः । अस्मिन् भगवति आगमतः पञ्चरात्रागमोक्तरीत्या नित्यसंबन्धाद्वा विशेषभाक् भेदभाक् न भवति नु किंतु तादात्म्यापन्नैव भवतीति भावः । 'विशेषोऽवयवे व्यक्तौ तिलकेऽत्यन्तभेदके' इति रत्नमाला । नन्वित्येकमेव पदं वा । अविशेषभाग्भवतीत्येवच्छेदः । तादात्म्यापन्नैव भवतीत्यर्थः॥

अन्योन्येनाविनाभावादन्योन्येन समन्वयात् ।
तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः ।

इति लक्ष्मीतन्त्रोक्तेः,

तदन्तर्भावात्त्वां न पृथगभिधत्ते श्रुतिरपि ।

इत्यभियुक्तोक्तेश्च । अथवा-- परेशता मा स्वौजसि । अस्मिन् उक्त एवार्थः । आगमतः 'ह्रीश्च ते लक्ष्मीश्च पत्न्यौ, सुमज्जानये'। इत्यादिश्रुत्युक्तरीत्या विशेषभाक् विशेषो विशेषणत्वं व्यावर्तकत्वं, विपूर्वकात् शिषेर्भावे घञ् । तं भजतीति तथोक्ता भवति ननु । स्वरूपनिरूपकतया भगवति विशेषणत्वमुपेयुषी जगत्कारणत्वेन शङ्कितेभ्यश्चतुराननादिभ्यस्तस्य व्यावृत्तिं संपादयतीति भावः । यद्वा-- स्वौजसि अस्मिन् सति परेषां चतुर्मुखादीनां ईशता आगमतः शास्त्रात् विशेषभाक् उत्कर्षभाक् मा भवति ननु । जागरूके भगवतः पारमैश्वर्ये अन्येषामैश्वर्यं शास्त्रदृष्ट्या कथमुत्कर्षमाप्नुयादिति भावः । माशब्दो निषेधार्थकः । ‘माऽव्ययं प्रतिषेधे स्यात्, मा निषेधेऽव्ययं मतम्' इति रत्नमालाविश्वौ ॥