पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
38
अलंकारमणिहारे

इति विहितो यः खप्रत्ययः तस्य यः ईनः 'आयनेयीनीयियः' इत्यादिना विहित ईनादेशः तेन प्रथितस्सन् भातीति प्रत्येकं त्वद्भोगीन इत्यादिभिस्संबध्यते । त्वद्भोगीनादिशब्दत्रयस्योक्तप्रक्रियानिष्पन्नत्वात्तथोक्तिः । अथात्मनीनशब्दे विशेषं च दर्शयति-- अथेत्यादिना । अथेति विशेषद्योतकम् । आत्मा आत्मशब्दः प्रकृत्या च भाति ‘आत्माध्वानौ खे’ इति सूत्रविहितं प्रकृतिभावमापन्नः प्रकाशते । यथावस्थितस्वरूप एव भवति, न तु ‘नस्तद्धिते’ इति टिलोपं प्राप्नोति । खप्रत्ययश्शब्दत्रयेऽप्यविशिष्ट एव, आत्मशब्दे तु प्रकृतिभावो विशेष इति भावः ॥

 यथावा--

 सक्तो भजति दधाति स्पष्टं हिततां फणीशगिरिभवनः । स्वौजसि परेशताऽस्मिन्ननुमागमतोविशेषभाग्भवति ॥ ८४१ ॥

 अत्र प्रस्तुतस्य भगवतः अप्रस्तुतस्य धाञ्धातोः भजधातोश्च श्लेषः । तथाहि-- फणीशगिरिः भवनं यस्य सः श्रीनिवासः भजति भक्ते जने सक्तः प्रीतिमान् ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ इति गानात् । अत एव हिततां तस्मै भक्तिमते उपायोपेयभावेन हितकारितां दधाति बिभर्ति स्पष्टं नात्र विशयलेशोऽपीति भावः । स्वौजसि स्वा ओजसीतिच्छेदः ओजसि ‘परं ज्योतिरुपसंपद्य’ इति श्रुते दिव्यतेजोरूपे । यद्वा स्वा औजसीतिच्छेदः । आ समन्तात् ओजः प्रकाशो यस्य तस्मिन् सर्वव्यापिनिरतिशयतेजसि अस्मिन् परब्रह्माणि श्रीनिवासे विद्यमाना । स्वा स्वतस्सिद्धा परश्चासावीशश्च परेशः तस्य भावः परेशता पारमैश्वर्यं 'ईशस्सर्वस्य जगतः, एष सर्वेश्वरः’ इत्या-