यथा--
अधिकुरुसमिति समस्तो लोको यत्र व्यलोकि लोकेन । कृष्णाविपदपहरणप्रवणा करूणाऽत्र वपुषि तव न ममौ ॥ १३५७ ॥
कुरूणां समितिः सभा संगरो वा तस्यां अधिकुरुसमिति, विभक्त्यर्थेऽव्ययीभावः । कुरूणां सभायां संगरे च भगवता विश्वरूपस्य प्रकाशनात्तदुभयसंग्रहाय समितिशब्दोपादानम् । 'समितिस्सांपराये स्यात्सभायां संगरेऽपिच' इति मेदिनी । अत्र यत्र भगवद्दिव्यविग्रहे समस्तो लोको व्यलोकीत्याधारस्यातिमहत्त्वमुपदर्श्य अत्र तव दिव्यविग्रहे करुणा न ममावित्याधेयस्याधिक्यं वर्णितम् ॥
यथावा--
विश्वात्मन्यपि च त्वयि विश्वंभर नैव मान्तिसुगुणगणाः। भवति किल महदमीषां भवत्स्वरूपादपीदमानन्त्यम् ॥ १३५८ ॥
विश्वात्मनि अखिलप्रपञ्चशरीरके । अत्रापि विश्वात्मनीत्याधारस्यातिमहिमानं प्रदर्श्य तत्र कल्याणगुणा न मान्तीत्याधेयाधिक्यं दर्शितम् ॥
यथावा--
रघुवीर तावकयशोराकाचन्द्रमसि सान्द्रतरमहसि । अभितो विजृम्भमाणे लभते द्यौर्लाञ्छनस्य संरम्भम् ॥ १३५९ ॥