पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४८३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
472
अलङ्कारमणिहारे

 हे अशिशिरकरकुलनायक ! निशिचरराज्यस्य श्रियं संपदम् । पक्षे निशिचराणां राजेः पङ्क्तेः अश्रियं दशाननभुजाभिगुप्तत्वप्रयुक्ताश्लीलतां ‘हर्तुं तामेव निशिचरराज्यश्रियमेव यामिनीचरकनीयसे विभीषणाय । शिष्टं स्पष्टम् । अत्र निशिचरराज्यश्रीहरणलक्षणफलमुद्दिश्य तद्विपरीतस्तद्दानरूपप्रयत्नः ॥

 यथावा--

 त्वदनघपुनर्भवरुचिं पुनर्भवरुचिं विहातुमतिवेलम् । मनसि सदातनवैभव कनकगिरीन्दो सदा तनवै ॥ १३५६ ॥

 सदातनं वैभवं यस्य स तथोक्त: तस्य संबुद्धिः नित्यवैभवेत्यर्थः । हे कनकगिरीन्दो ! पुनर्भवरुचिः भूयोऽपि जन्मस्पृहां विहातुं त्वदिति छेदः। हे अनघेति भगवत एव संबुद्ध्यन्तं विशेषणम् । त्वत् त्वत्तः पुनर्भवरुचिं उक्त एवार्थः । सदा मनसि तनवै करवै, इति विरोधः । त्वदनघपुनर्भवरुचिमिति समस्तं पदम् । तव अनघाः ये पुनर्भवाः नखाः ‘पुनर्भवः कररुहः' इत्यमरः । तेषां रुचिं प्रभां मनसि तनवै ध्यायनिति परिहारः । अत्र पुनर्भवरुचिप्रहाणफलमुद्दिश्य पुनर्भवरुचिमनस्काररूपविपरीतप्रयत्नः । यमकसंकीर्णत्वं पूर्वेभ्यो विशेषः । श्लेषभित्तिकाभेदाध्यवसायस्तु सर्वत्र तुल्यः ॥

इत्यलंकारमणिहारे विचित्रसरो द्विचत्वारिंशः.


अथाधिकालंकारसरः (४३)

आधेयाधिक्यकथनमाधारान्महतोऽधिकम् ॥

 यत्र महत आधारादाधेयस्याधिक्यवर्णनं तत्र अधिकं नामालंकारः ॥