पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
471
विचित्रालंकारसरः (४२)

 दुर्गाणि शैलादिदुर्गमस्थानानि । कृच्छ्राणि नरकांश्च ‘दुर्गा तु गौर्यां काळ्यां च दुर्गं तु नरके पुरे । शैलादिदुर्गमस्थाने त्रिषु त्वेष दुरासदे' इति रत्नमाला । ‘दुर्गं तु नरके कृच्छ्रे’ इति कोशान्तरम् । ‘सर्वस्तरतु दुर्गाणि, दुर्गाण्यतितरस्याशु' इत्यादयः प्रयोगाश्च । अत्र दुर्गातिपतनरूपफलमुद्दिश्य तद्विप्रतीपदुर्गगतपुरुषशरणागतिलक्षणप्रयत्नवर्णनम् ॥

 यथावा--

 पापशमनावलोकनलोपकृते त्वत्कृपाव्यपाश्रयवान् । श्रीपरिबृढ साधुजनः पापशमनमेव कलयति विचित्रम् ॥ १३५४ ॥

 हे श्रीपरिबृढ ! त्वत्कृपाव्यपाश्रयवान् साधुजनः, पापः क्रूर इति यावत् यः शमनः यमः 'शमनं शान्तिवधयोः क्लीबे वैवस्वते पुमान्’ इति रत्नमाला । तस्य अवलोकनं तस्य लोपकृते कदाचिदपि यमदर्शनं मा भून्ममेत्येतदर्थमिति भावः । पापशमनमेव क्रूरं यममेव कलयति सेवते इदं विचित्रम् । दुरितशान्तिमातनुते इति तु तत्त्वम् । अत्रापि सर्वं पूर्ववदेव । विचित्रमिति पदेन प्रकृतालंकारनाम्नोऽपि सूचनमिति वक्ष्यमाणमुद्रालंकारशिरस्कत्वं विशेषः ॥

 यथावा--

 अशिशिरकरकुलनायक निशिचरराज्यश्रियं स्वयं हर्तुम् । तामेव यामिनीचरकनीयसे नीतिमानहो त्वमदाः ॥ १३५५ ॥