पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
474
अलंकारमणिहारे

 यथावा--

 प्रसृमरभवदीययशःप्रकाशकलशाम्बुराशिजठरान्तः । गगनाभोगो हरिसखि गरुडध्वजमूर्तिविभ्रमं धत्ते ॥ १३६० ॥

 यथावा--

 भवदीयकंटाक्षश्रीभाजां भगवति यशस्त्रिपथगायाम् । सुरवर्त्मनाऽखिलाम्ब स्फुटतरनीलाम्बुजायितं क्वापि ॥ १३६१ ॥

 यथावा--

 ब्रह्माण्डस्यान्तर्बहिरपि भाति भवज्जुषां यशःप्रसरः । स्फाटिकसमुद्गकान्तस्स्फुटशिखदीपप्रकाश इव भगवन् ॥ १३६२ ॥

 एषूदाहरणेषु चतुर्षु आद्ये द्वे उदाहरणे रूपकोपस्कृतनिदर्शनासङ्कीर्णे । अन्तिमे द्वे उपमासंवलिते । सवेत्र आधारापेक्षया आधेयाधिक्यवर्णनं तुल्यमेव । तत्रापि त्रिषूदाहरणेषु अधाराधेययोर्गगनयशसोरेव प्रकारान्तरेणोपमाप्रदर्शनेन वर्णनं, अन्तिमे तु आधेयं यश एव, आधारो ब्रह्माण्डमित्यपि वैलक्षण्यं द्रष्टव्यम् ॥

 यथावा--

 भगवन्नगणितवैभव भवदीययशश्छले सुधाजलधौ । ब्रह्माण्डमण्डलनिभाद्विभान्ति मुक्ताफलानि पृथुलानि ॥ १३६३ ॥