पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४७७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
466
अलंङ्कारमणिहारे

 हे भगवन् ! त्वत्पराभवात् त्वत्कर्मकपरिभवात् । अमितां अपरिच्छिन्नां कमनीयस्थितिं वैभववत्तया रमणीयमवस्थानम् । उत्तरार्धेऽप्येवमेव । तत्र परमार्थतस्तु त्वदिति भिन्नं पदम् । त्वत् त्वत्तः पराभवात् स्वकर्मकपरिभवात् । अमिता अविद्यमानमकारा कृता कमनीयस्थितिः कनीयस्थितिः शब्दार्थयोस्तादात्म्यात् । अतिमात्रनिकृष्टा स्थितिरेवेत्यर्थः । कनीयसी चासौ स्थितिश्चेति विग्रहः । अल्पशब्दादीयसुनि ‘युवाल्पयोः कनन्यतरस्याम्' इति कनादेशः । अत्र कनीयस्स्थितिरूपोत्कटानिष्टसद्भावेऽपि श्लेषवैभवेन कमनीयस्थितिरूपेष्टलाभः ॥

 यथावा--

 प्राप्ता सुरपतिपदमपि पातालमनन्तभोगिलोकमपि । विन्देयमिति यजन् बलिरकारि भवता त्रिविक्रम तथैव ॥ १३४७ ॥

 हे त्रिविक्रम ! इदं एतत्पद्यप्रस्तुतार्थस्य तदवतारासाधारणतां व्यञ्जयितुम् । सुरपतिपदं महेन्द्रस्थानं प्राप्ता । प्रपूर्वकादाप्नोतेस्तृन् । अपिश्चार्थकः । अलं पाताऽपि रक्षिता च । पातेस्तृन् । बलिः दैत्येन्द्रः । अनन्तः यः भोगिनां उत्तमतत्तत्कर्मफलभोक्तॄणां लोकः ब्रह्मलोकपर्यन्तं विष्टपम् । यद्वा अनन्तेति भगवतएव संबोधनम् । भोगिलोकमपि उक्त एवार्थः । अथवा अनन्तभोगः भगवदनुभवः सोऽस्मिन्नस्तीत्यनन्तभोगी स चासौ लोकश्च । अनन्तभोगिनां भगवदनुभवशालिनां लोक इति वा । तमपि श्रीवैकुण्ठमपीत्यर्थः । विन्देयं प्राप्नुयामिति यजन् यज्ञं कुर्वन् सन् भवता यज्ञाराध्येन तत्फलप्रदेन चेति भावः । य-