पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
467
समालङ्कारसरः (४१)

थामनोरथमेव फलं लम्भित इत्यर्थः । वस्तुतस्तु सुरपतिपदं प्राप्ताऽपि बलिः अनन्तः भोगिलोकः भुजगसमुदयः यस्मिन् सः तं तथोक्तं पातालं प्रापित इति । अनन्तेति भगवतस्संबोधनविवक्षायां पातालं तत्संज्ञकं भोगिलोकं नागलोकं प्रापित इति वा अर्थः । अत्रोत्कटानिष्टस्य पातालप्रापणस्य सद्भावेऽपि अनन्तपुण्यकृल्लोकादिप्राप्तिरूपेष्टसिद्धिः प्रत्यायिता । अत्रोत्कटानिष्टस्यातर्कितत्वं स्फुटतरमिति ध्येयम् ॥

 यत्रेष्टार्थप्राप्तिसद्भावेऽपि श्लेषवशादसतोऽनिष्टार्थस्य प्रतीतिस्तत्रापि समालंकारस्य न क्षतिः, अनिष्टप्रतीतेराभासरूपत्वेनापर्यवसानात् ॥

 यथा--

 गुरुणात्यादरगुरुणा कार्या देवेनभक्तिरित्युदितः । कुर्वंस्तथैव भक्तिंः गुर्वाज्ञां सर्वथाऽपि नात्यैषीत् ॥

 अत्र गुर्वाज्ञां सर्वथाऽपि नात्यैषीदित्यनेन विरोधालंकाराभिव्यञ्जनाय देवेनभक्तिरित्यत्र पदत्रयविभागात्मकरूपान्तरस्यापि विवक्षायास्सत्त्वेऽपि देवानां इने स्वामिनि भगवति भक्तिः देवेनभक्तिरित्येकपदेन वस्तुसदर्थान्तरपरं रूपान्तरमुपादाय समालंकारोऽप्यस्त्येव ॥

 यथावा--

 व्रतमेतर्हि जयन्त्याः कार्यं नाशनमितीरितः पित्रा । बालस्तथैव विदधे वितथां विदधीत को नु पितुराज्ञाम् ॥ १३४९ ॥

 अत्रापि वितथां विदधीत को नु पितुराज्ञामित्यनेन विरोधालंकृतिमभिव्यञ्जयितुं नाशनमित्यत्र एकपदरूपान्तरस्यापि वि-