पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
465
समालङ्कारसरः (४१)

तदा सांप्रतं युक्तमित्यर्थः । ‘सांप्रतं चाधुनार्थे स्याद्युक्तार्थेऽपिच सांप्रतम्’ इति विश्वः । किलेति संभावनायामनुनये वा । 'किलशब्दस्तु वार्तायां संभाव्यानुनयार्थयोः’ इति विश्वः । उपपादितोऽर्थस्सर्वोऽपि स्तुतिपरः । अन्नादः केवलं प्रकृतौदनभोक्तैव अकारिषि न तु ‘विजिघत्सः' इति श्रुत्युक्तजिघत्सादिहेयगुणविधुर इत्युपालम्भः । अत्र मुमुक्षोः प्रपन्नस्व प्राकृतभोगरूपोत्कटानिष्टसद्भावेऽपि श्लेषमहिम्ना मुक्तैश्वर्यानुभवरूपेष्टप्रतिपत्तिः ॥

 यथावा--

 रजनिचरा रघुनन्दन निशारणं तव जयाय येऽकाङ्क्षन् । त्वमपि तथैव निशारणमददास्तेषामुदारदाक्षिण्यः ॥ १३४५ ॥

 तव जयाय त्वत्कर्मकाभिभवाय निशारणं रात्र्यधिकरणकं युद्धम् । तथैव यथेप्सितमेव निशारणं रात्रियुद्धम् । वस्तुतस्तु तव जयाय त्वत्कर्तृकाविजयाय तेषां रजनिचराणां निशारणं निषूदनं अददा इत्यर्थः । ‘प्रमापणं निवर्हणं निकारणं निशारणम्' इत्यमरः । अत्र रजनिचराणां निबर्हणरूपानिष्टस्योत्कटस्य सत्त्वेऽपि श्लेषप्रभावेण निशायुद्धरूपेप्सितलाभः ॥

 यथावा--

 अमितां कमनीयस्थितिमाप्तुं ये त्वत्पराभवादैच्छन् । कमनीयस्थितिरेव ह्यमिता तैस्त्वत्पराभवाल्लभे ॥ १३४६ ॥

 ALANKARA II
59