पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
37
श्लेषसरः (२८)

 यथावा--

 त्वद्भोगीनस्स्वामिन् विश्वजनीनस्तथाऽऽत्मनीनश्च । भाति हितार्थसुखेनप्रथितोऽथात्मा प्रकृत्या च ॥ ८४० ॥

 अत्र भगवदुपासकस्य प्रकृतस्य त्वद्भोगीनादिशब्दस्याप्रकृतस्य च श्लेषः । तथाहि हे स्वामिन् ! त्वद्भोगीनः तवैव भोगाय हितः न तु स्वस्य, त्वद्भोगसंपादनैकतानः त्वच्छेषतैकरस इति यावत् । ‘परगतातिशयाधानेच्छया उपादेयत्वमेव यस्य स्वरूपं स शेषः' इति हि शेषलक्षणम् । अत एव विश्वजनीनः सर्वजनाय हितः आत्मनीनः आत्मने हितश्च स्वपरहिताचरणैकवृत्तिरित्यर्थः । उक्तं च-- 'स्वपरहितपरं देशिकम्' इति । ईदृशः आत्मा चेतनः हितार्थसुखेन हितं भगवत्प्राप्त्युपायः अर्थः परमपुरुषार्थः हितार्थशब्दौ तद्ज्ञानपरौ । इदं तत्त्वज्ञानस्याप्युपलक्षकम् । ताभ्यां यत्सुखं आनन्द: तेन प्रथितस्सन् भाति । अथ शरीरावसाने प्रकृत्या च आविर्भूतगुणाष्टकादिविशिष्टत्वरूपेण स्वस्वभावेन च भातीत्यनुषज्यते दीप्यते । त्वच्छेषतैकरसो विश्वजनाय स्वच्छात्रभूतायात्मने च हितकृच्चेतनस्तत्त्वहितपुरुषार्थज्ञानप्रयुक्तानन्दवत्तयेह प्रतीतश्शरीरावसाने चाविर्भूतस्वाभाविकापहतपाप्मत्वादिब्राह्मगुणो नित्यासंकुचितज्ञानतया प्रकाशते मुक्तो भवतीति भावः ॥

 अन्यत्र-- त्वद्भोगीन इति शब्दः विश्वजनीन इति शब्दः आत्मनीन इति शब्दश्च हितार्थसुखेनप्रथित इति समस्तं पदम् । हितार्थे हितरूपेऽर्थे ‘तस्मै हितम्' इति सूत्रेण विहिते शोभनश्चासौ खश्व सुखः ‘आत्मन्विश्वजनभोगोत्तरपदात्खः'