पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
36
अलंकारमणिहारे

भविता सत्तैव भवितेति यत्, नञ्द्वयेन संभाव्यभावनिषेधो व्यावर्तितः । इदमपि युक्तं विद्म. 'पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च' इत्यादिश्रुतेः। ज्ञानोपलक्षितकल्याणयुणवैधुर्यमस्य न कदाऽपि भवेदिति भावः । आभ्यां पूर्वोत्तरार्थाभ्यां ‘अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः' इति श्रुता अखिलहेयप्रत्यनीकता ‘सत्यकामस्सत्यसंकल्पः' इति श्रुता अनन्तकल्याणगुणाकरता च क्रमेण दर्शिता ॥

 अन्यत्र-- लक्ष्म्याः लक्ष्मीशब्दस्य । अर्थगतस्य स्त्रीत्वस्य शब्दे आरोपः । सख्युः सखिशब्दस्य पत्युः पतिशब्दस्य च । घितागुणाभावः घिता घिसंज्ञकत्वम् । तेन यो गुणः ‘घेर्ङिति’ इति विहितो गुणः तस्य अभावः प्रथत इति युक्तम् । लक्ष्मीशब्दस्य नदीसंज्ञकदीर्घेवर्णान्तत्वेन ‘शेषो घ्यसखि’ इत्यनदीसंज्ञकह्रस्वेवर्णोवर्णान्तत्वनिबन्धनघिसंज्ञायास्तत्राप्रवृत्तेः । तत्रैव घिसंज्ञाविधायके सूत्रे असखीति सखिशब्दस्य पर्युदस्तत्वा । सखिशब्दस्य ‘पतिस्समास एव' इति समास एव पतिशब्दस्य घिसंज्ञाया नियमितत्वेनासमस्तपतिशब्दस्य च तदभावात् घिसंज्ञाप्रयुक्तगुणाभावः प्रसिद्ध इति युक्तम् । भविताप्रत्ययस्येत्यत्र भविता आप्रत्ययस्येति छेदः । आप्रत्ययस्य आङ्संज्ञस्य टाप्रत्ययस्य नाभावः 'आङो नास्त्रियाम्' इति विहितस्य नादेशस्याभावः भवितेति यत् इदमपि युक्तं विद्मः। लक्ष्मी-सखि-पतिशब्दानामुक्तरीत्या घिसंज्ञाया एवाभावान्न तत्कार्यनाभाव इति भावः । यद्वा अपिशब्दो गर्हायां, अपीदं युक्तं विद्म इति योजना । अस्मिन् पक्षे--आप्रत्ययस्य आङः नाभावः नात्वं भवितेति यत् तत् युक्तं विद्मः किं ? तेषां शब्दानां घिसंज्ञाया एवाभावेन आङो नादेशो भवितेति न युक्तं विद्म इत्यर्थः ॥