पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
416
अलंकारमणिहारे

मध्यं अन्तरं अवलग्नं च श्रिता सती यथेप्सितश्रीश्च भवसि परंतु ते तव अत्र श्रीमध्ये अशनाभावः स्यात् आहारदौर्लभ्यं भवेत् अशनशालिसहभूस्त्वं तावन्मात्रेणापरितुष्यन्ती ततोऽतिशयितां श्रियमपेक्षमाणा तां लभस एव परंत्वशनाभावरूपमहानिष्टं च लप्स्यसे इति भावः । यथोच्यते--

यावद्भ्रियेत जठरं तावत्कुर्यादुपार्जनम् ।
अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥

 इति । शनिसहभूरिति च लभ्यते । तदा शनिना सह स्थिता शनिपीडितेति यावत् । एवं शनिपीडितायाः कथंचिदिष्टलाभेऽप्यनिष्टलाभो दुष्परिहार इति भावः । पक्षे यथेप्सितश्रीः रशनाभाव इति च्छेदः। ‘रो रि’ इति रेफलोपः । ते तव रशनाभावः मेखलात्वं स्यात् । नित्यश्रीमत्तया श्रियो मध्यभागेऽवस्थानात्तव रशनात्वं भवेदेवेति भावः । 'सप्तकी रशना तथा’ इत्यमरः । अत्रापि पूर्ववदेव केवलानिष्टलाभः ॥

 यथावा--

 करिकरपीडां व्युदसितुमरविन्दं त्वत्करात्मनाऽऽविरभूत् । हरिकरपीडनमलभत सरसिजनयनप्रिये तदत्रापि ॥ १२७६ ॥

 हरेः सिंहस्य भगवतश्च करपीडनं हस्तोपमर्दं, पक्षे करपीडनं पाणिग्रहणमित्यर्थः । तत् अरविन्दम् । अत्रापि अरविन्दजन्मन्यपि । अत्रारविन्दस्य करिकरपीडाव्युदसनरूपेष्टावाप्तिसद्भावेऽपि हरिकरपीडनरूपानिष्टप्रतिलम्भश्च भवतीतीदमपि केवलानिष्टप्रतिलम्भ एव । श्लेषमहिम्ना इष्टतमस्याप्यनिष्टतासंपादनमिति ध्येयम् ॥