पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
417
विषमालङ्कारसरः (४०)

 यथावा--

 इनसुहृदा राज्ञा त्वं मया सदृक्स्या इतीच्छुरखिलविभो । तव दृग्गत एवाभूदिनान्वितो हन्त दूत एवेन्दुः ॥ १२७७ ॥

 हे अखिलविभो ! इन्दुः इनसुहृदा अनेकप्रभुमित्रेण, पक्षे भानुसहितेन राज्ञा नृपेण चन्द्रण च । मया त्वं सदृक् तुल्यः दृग्भ्यां सहितश्च मयेत्यत्र तृतीयाया अभेदोऽर्थः । तथाच सूर्यसहितमदभिन्ननयनद्वयवानिति भावः । स्याः । इति इच्छुः काङ्क्षन् सन् ‘विन्दुरिच्छुः' इति निपातनात्साधुः । तव अखिलजगद्राजाधिराजस्येति भावः । दृग्गतः दृष्टिपथगतमात्र एवेति भावः । इनान्वितः स्वसुहृदनेकप्रभुसहितस्सन् तव दूत एव संदेशहर एव अभूत् । त्वददर्शनावसरे आत्मानमेव महाराजं मन्यमनोऽखिललोकनाथमपि त्वां स्वसदृशं चिकार्षुरभ्येत्य त्वद्दर्शनमात्रेणैव त्यक्ताभिमानस्स्वपक्षीयप्रभुभिस्सह तव दूत्यमलभतेति भावः । इनान्वितः सूर्यसहितः तव दृग्गतः दृष्टिस्थानं प्रपन्न एवाभूत् । चन्द्रसूर्ययोरुभयोरपि तन्नयतत्वश्रवणादिति भावः । नैतावदेव । दूत एवाभूत् । 'एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इत्युक्तरीत्या तच्छासनानतिवर्त्यभूदिति भावः । पक्षे इन्दुशब्दः इना इंन्निति वर्णसमुदायेन अन्वितः

दूतः दुना दुवर्णेन ऊतः स्यूतः युक्त एवेत्यर्थः । अभूत् । इन्शब्दस्य ताद्विध्यादिति भावः । अत्र सदृक्त्वप्रेप्सोरिन्दोस्सदृक्छब्दप्रतिपाद्यसदृशसदृष्टिरूपार्थद्वयश्लेषभित्तिकाभेदाध्यवसायवैभवेन तादृशेप्सितलाभोऽस्त्येव । तथाऽपि दूतत्वरूपानिष्टोपलम्भोऽपि भवतीत्ययमपि केवलानिष्टप्रतिलम्भ एव ॥

 ALANKARA II
53