पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
415
विषमालङ्कारसरः (४०)

 यथावा--

 कमलं त्वन्नयनरुचा प्रमथितरोचिः प्रपद्य पुंस्त्वमथ । वञ्चयितुमुपेत्य त्वां त्वया पराहण्यते परा राम ॥ १२७४ ॥

 हे राम ! इदं वक्ष्यमाणार्थस्य तदवतारकृतत्वद्योतनाय । कमलं नलिनं क्लीबमिति भावः । त्वन्नयनरुचा स्त्रियेति भावः । प्रमथितरोचिस्सत् अथ पुंस्त्वं पुरुषत्वं पुल्लिङ्गतां च प्रपद्य तत्प्रतीकारार्थं कमलो मायामृगो भूत्वेति भावः । ‘स्यात्कुरङ्गेऽपि कमलः' इत्यमरः । पुरा पराहण्यते पराहण्यतेत्यर्थः । ‘पुरि लुङचास्मे' इति पुराशब्दयोगे भूतेऽर्थे लट् । ‘हन्तेरत्पूर्वस्य' इति णत्वम् । स्पष्टमितरत् । अत्र कमलस्य श्रीरामवञ्चनरूपेष्टसिद्धिरस्त्येव । परंतु पराहतिरूपोत्कटानिष्टप्रतिलम्भश्चेतीदमपि केवलानिष्टप्रतिलम्भरूपमेव ॥

 यथावा--

 ननु चपलेऽशनिसहभूर्नित्यश्रीप्सुश्श्रिता श्रियो मध्यम् । भवसि च यथेप्सितश्ररिशनाभावः परंतु तेऽत्र स्यात् ॥ १२७५ ॥

 अशनिनां अशनवतां, भूम्नि नित्ययोगे वा मत्वर्थीय इनिः । सहभूः सहजन्मा तैस्सह जातेत्यर्थः । तस्यास्संबुद्धिः हे अशनिसहभूः! पक्षे अशनेः वज्रस्य सहभूः विद्युदशन्योरेकत्रावस्थानात्तथोक्तिः । नन्विति सुकुमारामन्त्रणे । ननु चपले हे सौदामनि! चापल्यं सूचयितुमिदम् । त्वं नित्यश्रियं अचञ्चलां लक्ष्मीं इप्सुस्सती श्रियः संपदः भगवत्या लक्ष्म्याश्च