पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
408
अलंकारमणिहारे

 यथावा--

 तव सद्गतिं चरणयोरसहिष्णुस्तच्चुचोरयिषुरेत्य । स्वगतिभ्रंशोद्गजपतिरलभत जपतोपि नात्मनस्सत्ताम् ॥ १२६२ ॥

 हे भगवन्! गजपतिः तव चरणयोः पादयोः त्वदीययोः, शाखाध्येत्रोर्विप्रयोरित्यपि गम्यते । ‘चरणोऽस्त्री बह्वृचादौ मूलेगोत्रे पदेऽपिच' इति मेदिनी । सद्गतिं प्रशस्तं ज्ञानं उत्तमलोकावाप्तिसाधनभूतां विद्यामिति यावत् । 'गतिस्स्त्री मार्गदशयोर्ज्ञाने यात्राभ्युपाययोः' इति मेदिनी । प्रशस्तं गमनमिति तु तत्वम् । असहिष्णुः । "न लोक" इत्यादिना षष्ठीनिषेधात्कर्मणि द्वितीया । अतएव तच्चुचोरयिषुः त्वच्चरणगतिजिहीर्षुः । एत्य तदभिमुखो भूत्वा स्वगतैः स्वज्ञानस्य स्वगमनस्य च भ्रंशात् भ्रंशं च्युतिं एत्य । ल्यब्लोपे पश्चमी । जपतोऽपि स्तेयदोषनिरासिवेदाध्ययनेनापि ‘स्वाध्यायस्स्याज्जपः' इत्यमरः । आत्मनस्सत्तां स्वस्वरूपस्थितिं सत्तां अभ्यर्हिततां प्रशस्ततां वा । ‘सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्' इत्यमरः । नालभत । पक्षे गजपतिशब्दः स्वगतिभ्रंशात् स्वनिष्ठयोः ग ति इति आद्यन्तवर्णयोः भ्रंशं प्राप्य जपतः मध्येऽवशिष्टेनापि वर्णद्वयेन आत्मनस्सत्तां गजपतिरित्याकारकशब्दस्वरूपस्थितुिं नालभतेत्यर्थः । अत्र गजपतिना भगवच्चरणयोरुत्तमसुखसाधनभूतसद्गतिनिवृत्तिरूपेष्टार्थो नासादितः, अपितु स्वगतिभ्रंशरूपानिष्टार्थ एव समधिगतः । अयं च चरणादिशब्दप्रतिपाद्यार्थद्वयश्लेषभित्तिकाभेदाध्यवसायजीवातुक इत्यवधेयम् ॥