पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
407
विषमालङ्कारसरः (४०)

सुखसाधननिवृत्तेर्दुःखसाधनरूपत्वान्न पृथग्गणना युक्ता, तथाऽपि दुःखसाधननिवृतौ सुखस्येव सुखसाधननिवृत्तौ दुःखस्यापि प्रतिनियतकारणजन्यत्वेनानैयत्यात्पृथगुपादानमिति ध्येयम् ॥

 यथावा--

 वैदेहीकबळनतो विदारयितुमुद्यता रघूत्तंसम् । स्वयमेव यातुभगिनी नासाकर्णे विदारिता विकृता ॥ १२६० ॥

 विदारं कर्तुं विदारयितुं विकळत्रं कर्तुमित्यर्थः । विदारयितुं विदलयितुमिति च । नासाकर्णे इत्यत्र प्राण्यङ्गत्वादेकवद्भावः । अत्र भगवतो दाशरथेस्सुखसाधनीभूतवैदेहीकबळनेन दुःखसाधनप्रापणोद्यतायाश्शूर्पणखाया न परं तदलाभः, परंतु आत्मन एव कर्णनासविदारणरूपानिष्टप्राप्तिः । इयं श्लेषोत्तम्भिता । पूर्वोदाहरणं शुद्धम् ॥

 यथावा--

 प्रह्लादेन कृतायास्त्वद्भक्तेर्निरसनाय यतमानः । नृहरे हिरण्यकशिपुस्त्वत्तस्स्वयमेव निरसनमयासीत् ॥ १२६१ ॥

 निरसनाय प्रतिपक्षेपाय । निरसनं प्रतिक्षेपं वधं च । 'निरसनं वधे प्रतिक्षेपे' इति मेदिनी । अत्र हिरण्यकशिपुना विधित्सितं प्रह्लादसंबन्धिनिरतिशयसुखसाधनभूतभगवद्भक्तिकर्मकनिरसनं न विहितं, किंतु स्वयमेव निरसनमासादितम् । इदमपि श्लेषगर्भमेव । परिसंख्यालंकारसंकीर्णत्वं तु सर्वत्र तुल्यमेव ॥