पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
409
विषमालङ्कारसरः (४०)

 केवलेष्टानवाप्तिर्यथा--

 कैकेयीवरयुगवशदशरथवचनाद्भवन्तमाप्तवनम् । विनिवर्तयितुमनीशो न्यवृतद्रघुवंशदिनमणे भरतः ॥ १२६३ ॥

 अत्र भरतस्य स्वाग्रजरामभद्रवनवासनिवर्तनरूपेष्टानवाप्तिमात्रं निबद्धम् ॥

 यथावा--

 मूढगुणं व्पपवोढुं गाढं श्रीपरिभृढं व्रजन् शरणम् । चेतनवर्गो बाढं समूढगुण एव भवति चित्रमिदम् ॥ १२६४ ॥

 मूढगुणं मौढ्यमित्यर्थः । सः मूढगुण इति च्छेदः । सः शरणं व्रजन् पुमान् मूढगुण एवेति विरोधः । समूढाः सपुञ्जिताः गुणाः 'अष्टा गुणा पुरुषं भूषयन्ति' इत्युक्ताः महागुणाः यस्य स तथोक्त इति परिहारः । महार्हगुणसंपन्नो भवतीत्यर्थः । 'समूढः पुञ्जिते भुग्ने' इति विश्वः । अत्र मूढगुणव्यपोहनप्रेप्सोश्चेतनवर्गस्य तदलाभमात्रमेव । न त्वनिष्टान्तरोपलम्भः । पूर्वं शुद्धं, इदं श्लेषसङ्कीर्णमिति विशेषः ॥

 यथावा--

 अवलम्ब्य त्वत्पदमप्यप्राप्य त्वत्तनूपमामभ्रम् । अमुखमभूत्किल विष्णो भ्रान्तस्येष्टं कथं भवेत्सफलम् ॥ १२६५ ॥

 ALANKARA II
52