पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
394
अलंकारमणिहारे

मित्यर्थः । अत्र रसालखण्डस्य श्रीवचनरसपरिबुभूषोस्तदनवाप्तिः रसोनकत्वाद्यनिष्टप्रतिलम्भश्च ॥

 यथावा--

 वैश्वानरस्त्वदोजस्स्पर्धी तेनाहतोऽथ वैभ्रष्टः । व्यूष्माहारं मुञ्चन्वानरतामेत्य वान एवानीत् ॥ १२४५ ॥

 हे भगवन्! वैश्वानरः वह्निः वैश्वानरशब्दश्च । तयोस्तादात्म्यम् । तव ओजसा प्रतापेन स्पर्धत इति तथोक्तः । अत एव तेन आहतः अभिहतः अथ अनन्तरमेव भ्रष्टः । वैशब्दोsवधारणे । 'स्युरेवं तु पुनर्वैव’ इत्यमरवचनस्य ‘पुनर्वै च' इति सुभूतिना पठितत्वात् । एतच्च सुधायां स्पष्टम् । अधः पतित एवेत्यर्थः । शब्दपक्षे वैभ्रष्ट इति समस्तं पदम् । वैइत्याकारकवर्णभ्रंशं प्राप्त इत्यर्थः । व्यूष्मा विगतौष्ण्यः शान्तप्रताप इति यावत्। पक्षे विगशकार इत्यर्थः । 'शषसहा ऊष्माणः’ इति शकारस्योष्मसंज्ञाविधानात् । वानरतामेत्य अप्रतिपत्तिमूढहृदयतया कपिवदतिचपलो भूत्वेति भावः । पक्षे वै इति सस्वरव्यञ्जनस्य श् इति केवलव्यञ्जनस्य चापगमे वानर इत्यवशिष्ट इत्यर्थः । आहारं अभ्यवहारं मुञ्चन् पराभवमूलकखेदेन प्रायोपवेशं कुर्वन्निति भावः । पक्षे हा इति च्छेदः । रं रेफं मुञ्चन् वानः शुष्क एव सन् आनीत् कथंचित्प्राणानधार्षीत् । ‘वानश्शुष्के शुष्कफले' इति रत्नमाला । ‘वानश्शुष्कफले शुष्के सीवने गमने कटे' इति हेमश्च । 'पै ओ वै शोषणे' ‘गत्यार्थकर्मक' इत्यादिना क्तः । 'ओदितश्च' इति तस्य नत्वम् । ‘आदेच