पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
395
विषमालङ्कारसरः (४०)

उपदेशेऽशिति’ इत्यात्वम् । पक्षे रेफस्यापि लोपे व न इत्यवशिष्टस्सन् आनीत् । तावन्मात्रेण सत्तामलभतेति भावः । अत्र वैश्वानरस्य इष्टानवप्त्यनिष्टप्राप्ती ॥

 यथावा--

 आद्यन्तयोर्विकलितस्तव कुचयुगलेन कमलमुकुलोऽम्ब । आद्यन्तसारताप्त्याऽमलमुकुरोऽप्यथ धुतः कपोलाभ्याम् ॥ १२४६ ॥

 हे अम्ब! कमलमुकुलः पद्मकोशः मृदुरेकाकी चेति भावः । तव कुचयुगळेन कठिनतरेण इतरेतरदत्तसाह्येन द्वंद्वभूतेनेति भावः । आद्यन्तयोः अदावन्ते च सर्वथेति भावः । विकलितः विकलः कृतः शक्त्यादिसाकल्यविधुरः कृतः स्वेन स्पर्धमानः परास्त इति भावः । अथ अनन्तरं आद्यन्तयोः सारः बलं यस्य तत्तथोक्तं, तस्य भावः आद्यन्तसारता, तस्याः आप्त्या प्राप्त्या सर्वथा शक्त्यादिमत्तालाभेन त्वत्प्रतिचिकीर्षुरिति भावः । अमलमुकुरस्सन्नपि निर्मलादर्शजन्म लब्धवानपीति भावः । तव कपोलाभ्यां धुतः दूरं परास्तः सारवतोऽप्येकस्य सारवत्तराभ्यां द्वाभ्यां स्पर्धमानस्य सर्वधा परिभव एव भवितेति भावः । अन्यत्र कमलमुकुलशब्दः आद्यन्तयोः विकलितः विभ्रंशितौ कलौ यस्य स तथोक्तः कृतः । क्रमेणादौ ककारस्य अन्ते लकारस्य च भ्रंशं प्रापित इति भावः । अथ आद्यन्तयोः सारताप्त्या अश्च रश्च अरौ अराभ्यां सह वर्तत इति सारः, तस्य भावः सारता तदाप्त्या । अदौ अकारस्य अन्ते रेफस्य च सम्बन्धेनेति भावः । अमलमुकुरः अमलमुकुरशब्दो भवन्नित्यर्थः । अत्र कमलमुकुलस्य न केवलं श्रीकुचयुगळानर्थप्रापणरूपेष्टा-