पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
393
विषमालङ्कारसरः (४०)

भूत् । प्रतनशब्दः प्रवर्णलोपानन्तरं अवशिष्टस्य त न इति वर्णद्वयस्य वैपरीत्येन नत इति निष्पन्न इति निर्गळितोऽर्थः । अत्र प्रद्योतनस्य भगवन्महोभिभवेच्छा समभिव्याहारवशाद्गम्या, अनिष्टप्राप्तिस्तु स्फुटैव । गतमन्यत् ॥

 यथावा--

 त्वद्वचनरसपरास्तं रसालखण्डं रसोनकाद्यमभूत् । भूत्वाऽथ कालखण्डं क्रव्यादास्वाद्यमजनि जननि ततः ॥ १२४४ ॥

 हे जननि! रसालखण्डं इक्षुखण्डं सहकारफलखण्डं वा । त्वद्वचनरसस्पर्धीति भावः । त्वद्वचनरसेन परास्तं सत् रसोनकाद्यं रसोनकानां लशुनानां आद्यं अग्र्यं । रसोनकं च तत् आद्यं चेति वा । रसोनकरूपभक्ष्यवस्तु अभूत् । 'लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः' इत्यमरः । प्रथमतस्सामान्येन मधुरतया प्रतीतमपि स्वस्वरूपापरिचिन्तनेन मधुरतमश्रीवचनरसाभिभवप्रवृत्ततया तत्तिरस्कृतं दुर्गन्धि समजनिष्टेति भावः । नैतावदेव, अथ अनन्तरं कालखण्डं यकृदाख्यमांसखण्डं भूत्वा 'कालखण्डयकृती तु समे इमे' इत्यमरः । क्रव्यमदन्तीति क्रव्यादः आममांसाशिनः पक्ष्यादयो राक्षसा वा । ‘क्रव्यान्मांसाशिरक्षसोः’ इति रत्नमाला । तेषां आस्वाद्यं अजनि, न तु रससारविदामिति भावः । पक्षे रसालखण्डमिति पदं रसोनं रेफसाकाराभ्यां हीनं तद्रहितमित्यर्थः । काद्यं काकार एवाद्यो यस्य तत् प्रथमतः काकारघटितमित्यर्थः । रसोनं च तत् काद्यं चेति

विशेषणोभयपदसमासः । एवं भूत्वा कालखण्डमिति निष्पन्न-

 ALANKARA II
50