पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
14
अलंकारमणिहारे

मरः । तेषां अभितः संस्तवात् समीचीनस्तुतेः भवः जातः यो निनदः तेन ध्वस्तः दनुतनुजदर्पः दानवगर्वः यस्य स तथोक्तः । पक्षे-- हरेः भगवतः मुखमरुतः वदनानिलस्य अभिसंस्तवः अभितः परिचयः ‘संस्तवस्स्यात्परिचयः’ इत्यनुशासनात् । तद्भवेन निनदेन ध्वस्तदनुतनुजदर्पः । ऊक्तोऽर्थः । अनेन विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्पहन्ता' इत्येतत्प्रत्यभिज्ञाप्यते । पञ्चजनानां मनुजानां ‘स्युः पुमांसः पञ्चजनाः' इत्यमरः । पञ्चभिर्भूतैर्जन्यन्त इति पञ्चजनाः ‘जनी प्रादुर्भावे’ घञ् । ‘जनिवध्योश्च' इति न वृद्धिः । आधारः आश्रयः । यद्वा-- पञ्चजनानां इन्द्रियाणां आधारः आश्रयः ‘यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः इति श्रुतेः । पक्षे पञ्चजनो नाम दैत्यः स आधारो यस्य सः तदधारत्वादेवास्य पाञ्चजन्यशब्दवाच्यता । यथोक्तं श्रीमति भागवते--

नाहार्षं तमहं देव दैत्यः पञ्चजनो महान् ।
अन्तर्जलचरः कृष्ण शङ्खरूपधरोऽसुरः ॥

 इत्युपक्रम्य,

तदङ्गप्रभवं शङ्खमादाय रथमाविशत् ।

इति । अत एव हि ‘गम्भीराञ्ञ्यः' इति सूत्रस्थात् ‘बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम्' इति वार्तिकात् भवार्थे ञ्येन निष्पादितः पाञ्चजन्यशब्दो भाष्यकृता । राजन् प्रकाशमानः महान् आदरो यस्य सः । कोऽपि ‘यतो वाचो निवर्तन्ते' इति श्रुतमहामहिमा । भगवान् अव्यात् । पक्षे— भगवानिति विशेषणम् । कोऽपि लोकविलक्षणः राजत् महः तेजः यस्य स राजन्महाः दरः शङ्खः अव्यात् इति ॥