पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
13
श्लेषसरः (२८)

अजिति योगविभागादच् । उभयत्र सहपूर्वपदबहुव्रीहिः। सारश्चासौ सनाभश्चेति विशेषणोभयपदकर्मधारयः । तं तथोक्तम् । सुदर्शनं कल्याणालोकनम् । साधूनां सतां चक्रस्य बृन्दस्य राजा तं तथोक्तं सारसनाभं कलये इति भगवत्पक्षे योजना । सुदर्शनपक्षे तु-- चक्रराजं चक्राणां राजानं सुदर्शनं तन्नामानं भगद्दिव्यायुधं, इदमेव विशेष्यम् । साधु यथा स्यात्तथा कलये इति योजना । सुदर्शनशब्दः पुंस्यप्यनुशिष्टः ‘सुदर्शनोऽस्त्रियां चक्रे' इति नामनिधाने । ‘सुदर्शनो हरेश्चक्रे मेरुजम्बूद्रुमे पुमान्, अथ सुदर्शनः । विष्णोश्चक्रे’ इति मेदिन्यभिधानचिन्तामण्योस्तु पुंस्येव । तेन 'नामलिङ्गानुशासने ‘चक्रं सुदर्शनम्' इति क्लीबतया पाठसद्भावेऽपि न विरोधः । वस्तुतस्तु तत्रापि पुंलिङ्गपाठ एवादृतोऽमरसुधादौ । प्रयुक्तश्च माघेन– ‘बन्धुरेष जगतां सुदर्शनः’ इति । यद्यप्यत्र प्रथिमहितमित्यादिविशेषणविशिष्टस्य सुदर्शनमित्यस्य द्वितीयैकवचनान्ततया तत्र पुंनपुंसकयोरैकरूप्यान्न पुंलिङ्गतोपपत्तिरपेक्षिता । तथाऽपि महायुधमिति विशेषणे महती युत् यस्येति विग्रहे तयोः रूपभेदोऽवश्यंभावीत्यपेक्षितैव सा प्रदर्शितेति विभावनीयम् ॥

 यथावा--

 हरिमुखमरुदभिसंस्तवभवनिनदध्वस्तदनुतनुजदर्पः । पञ्चजनाधारोऽव्याद्भगवान् राजन्महादरः कोऽपि ॥ ८२० ॥

 अत्र भगत्पाञ्चजन्ययोः प्रस्तुतयोरेव श्लेषः। तथाहि-- हरिमुखा इन्द्राद्याः ये मरुतः देवाः ‘मरुतौ पवनामरौ' इत्य