पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
15
श्लेषसरः (२८)

 यथा वा--

 रुचिराङ्गदां भुजङ्गमपुङ्गवगिरिपतिकरग्रहोल्लसिताम् । विधुतालसदनुजातां साधुश्रियमाश्रये शरणम् ॥ ८२१ ॥

 अत्र स्तोतव्यत्वेन प्रस्तुतयोर्लक्ष्मीगदयोः श्लेषः । तथाहि-- भुजङ्गमपुङ्गवगिरिपतेः श्रीनिवासस्य करग्रहेण पाणिग्रहेण परिणयेनेत्यर्थः । पक्षे हस्तादानेन उल्लसितां उल्लासशालिनीं भासमानां च । विधोर्भावः विधुता तया चन्द्रतया लसन् अनुजातः अनुजन्मा यस्यास्तां चन्द्रसोदरामित्यर्थः । पक्षे विधुताः निर्धूताः अत एव अलसाः मन्दाः दनुजाताः दानवाः यया तां तथोक्ताम् । रुचिरे अङ्गदे केयूरे यस्यास्तां श्रियं लक्ष्मीं साधु पुष्कलाङ्गं यथा स्यात्तथा शरणं उपायं--

उपाये गृहरक्षित्रोश्शब्दश्शरणमित्ययम् ।
वर्तते सांप्रतं चैष उपायार्थैकवाचकः ॥

इत्यहिर्बुध्न्यसंहितोक्तेः । आश्रये भगवच्चरणारविन्दशरणवरणपुरुषकारत्वेन प्रपन्नोऽस्मीत्यर्थः । पक्षे— साधुश्रियमित्येतत्समस्तं गदाविशेषणम् । साध्वी श्रीर्यस्यास्तां रुचिरामिति व्यस्तं पदम् । रमणीयां गदां कौमोदकीं, अस्मिन् पक्षे ‘वा पदान्तस्य' इत्यनुस्वारस्य वैकल्पिकः परसवर्णः । शरणं श्रये इति ॥

 यथा वा--

 सन्नन्दकमसितोज्ज्वलमोजश्श्श्रीमत्त्सरूपधेयाङ्गम् । ध्यायामो बलिदैत्यध्वंसनदक्षिणमहाशयाकलितम् ॥ ८२२ ॥