पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२३९

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
229
प्रस्तुताङ्कुरसरः (३०)

विधस्य भवतः स्थिरा अचञ्चलशीला भूर्देवी अहमिति भावः दूरा उपेक्षणीयपक्षे निक्षिप्ता । चपलोपगूढस्य चपलशीलस्य तव स्थिरानुरागः कथमिव संभवेदिति भावः । अत्र वर्षासु घनाघनं प्रति भूदेव्या वचनेन प्रस्तुतेन लक्ष्म्यामेव प्रेमभूमानं विदधानेन त्वयाऽहमुपैक्षिषीति प्रस्तुत एव श्रीनिवासं प्रस्तुतपालम्भो द्योत्यते । अत्राम्बुदेति संबोधनेन वाच्यार्थस्य प्रस्तुतत्वं स्फुटमेव । प्रस्तुतान्तरद्योतनं च उत्तरार्धे कविनैव स्फुटीकृतम् ॥

 यथावा--

 सविधगतेऽपि च दयिते नवनीरदमेव पश्यति मयूरी । इति गदिते प्रापृषि वनभुवि गोपी दृशमवाञ्चिचत्कृष्णात् ॥ १००६ ॥

 इति गदिते कयाचिदिति शेषः । गोपी गोपवधूः कृष्णात् दृशं स्वां दृष्टिं अवाञ्चिचत् अवातीतरत् । अवपूर्वकात् ण्यन्तादञ्चतेः कर्तरि लुङि चङ् । अत्र गोपानां वनविहारावसरे प्रावृषि मयूरीं निर्दिश्य कस्याश्चिदुक्त्या प्रस्तुतगोचरया स्वदयितमप्यनादृत्य नन्दनन्दनमेव सानुरागं विलोकमानाया गोपललनाया वृत्तान्तः प्रस्तुत एव द्योत्यते । प्रावृषि वनभुवीति निर्देशो वाच्यार्थस्य प्रस्तुततामवगमयति । प्रस्तुतान्तरद्योतनं च दृशमवाञ्चिचत्कृष्णादिति कविनैवाविष्कृतम् । अत्र पूर्वोदाहरणद्वयापेक्षया द्योतितस्य कविनाऽऽविष्करणं स्फुटतरम् ॥

 अत्राद्योदाहरणयोर्लोचनकारमते अन्यापदेशध्वनिः । स हि-- 'किं भृङ्ग सत्यां मालत्यां केतक्या कण्टकेद्धया । अन्यासु ता-