पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
228
अलंकारमणिहारे

नीयतया प्रस्तुतत्वम् । न चात्र प्रकृताप्रकृतश्लेषशङ्का कार्या, विशेष्यस्यापि श्लिष्टत्व एव तदुन्मीलनात् अत्र च विशेष्यस्याश्लिष्टत्वादिति ॥

 यथावा--

 स्पर्शन एष स्पृहयति घनमाच्छादितवृषाद्रिमपनेतुम् । पश्य सखीति प्रावृषि पतिगिरमाकर्ण्य नम्रवदना श्रीः ॥ १००४ ॥

 स्पर्शनः मारुतः स्पर्शकर्तेत्यपि गम्यते । अत्र प्रस्तुतेन वर्षानिलकर्तृकघनापनयनस्पृहावृत्तान्तेन प्रस्तुत एव प्रावृषि श्रिया विहरतो भगवतस्स्वप्रेयसीपयोधरकञ्चुकापसारणस्पृहारूपवृत्तान्तः प्रत्याय्यते । सखि पश्य प्रावृषीति निर्देशाद्वाच्यार्थस्य प्रस्तुतत्वं स्फुटम् । प्रस्तुतान्तरद्योतनं च पतिगिरमाकर्ण्य नम्रवदनेत्यनेन उत्तरार्धे कविनैवाविष्कृतम् ॥

 यथावा--

 घनचापलतां चपलाश्लिष्टोवहसेऽम्बुद स्थिरा तव दूरे । नीरदलक्ष्यात् क्षितिरिति निगदन्ती शौरिणाऽभिपरिरेभेऽलम् ॥ १००५ ॥

 हे अम्बुद! चपलया तटिता श्लिष्टः घनां चापलतां इन्द्रधनुर्लतां वहसे । स्थिरा भूः तव दूरे तव व्योम्न्यवस्थानादिति भावः । पक्षे-- चपलया चञ्चलशीलया श्रियाऽऽश्लिष्टः ‘चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च' इति विश्वः । अत एव घनं चापलं यस्य स तथोक्तः । तत्तां वहसे तव एवं-