पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
230
अलंकारमणिहारे

वदुपमर्दसहासु भृङ्ग लोलं विनोदय मनस्सुमनोलतासु । बालामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमालिकायाम्' इति प्रस्तुताङ्कुरोदाहरणयोरन्यापदेशध्वनिमाह । तथाहि-- ‘अप्रस्तुतप्रशंसायां वाच्यार्थोऽप्रस्तुतत्वादवर्णनीय इति तत्राभिधायामपर्यवसितायां तेन प्रस्तुतार्थव्यक्तिरलंकारः । इह तु वाच्यार्थस्य प्रस्तुतत्वेन तत्राभिधायां पर्यवसितायामर्थसौन्दर्यबलेनाभिमतार्थव्यक्तिर्ध्वनिरेव' इति । अयं भावः-- अप्रस्तुतप्रशंसायां वाच्यार्थस्यावर्णनीयतया कविसंरम्भागोचरत्वात्कविसंरम्भसीमावधिः प्रस्तुतवृत्तान्त एवेति तस्य व्यङ्ग्यस्य प्रतीतावेव तात्पर्यपर्यवसाने अभिधाया अपर्यवसानान्न ध्वनिसंभव इति । तत्राप्रस्तुतप्रशंसालंकारसंभवेऽपि उपदर्शितोदाहरणयोर्न तत्संभवः । वाच्यार्थस्य प्रस्तुततया कविसंरम्भस्य तत्र विश्रान्त्या अभिधायांस्तत्रैव पर्यवसितत्वेन व्यङ्ग्यार्थस्य विषयसौन्दर्यबलेन लब्धप्रसरस्य वाच्यकक्ष्यामतीत्य भासमानत्वात् । अतोऽत्रान्यापदेशध्वनिरेव युक्त इति ॥

 'वस्तुतस्तु अयमलंकार एव न ध्वनिरिति व्यवस्थापितं चित्रमीमांसायाम्’ इति कुवलयानन्दे दीक्षिताः । अयमभिप्रायः-- समासोक्तौ तावद्वाच्यस्य वृत्तान्तस्य प्रस्तुततया कविसंरम्भगोचरत्वेनाभिधायां पर्यवसितायामपि विशेषणसाम्यबलेनाप्रस्तुतवृत्तान्तावगतावपि प्रस्तुतधर्म्यध्यारोपेण वाच्यार्थसौन्दर्यावहतया यथा न ध्वनित्वं, यथा वा अप्रस्तुतप्रशंसायामप्रस्तुतसामान्यविशेषभावादिसंबन्धेन प्रतीयमानस्य प्रस्तुतस्य वाच्योपस्कारकत्वेन न ध्वन्यन्तर्भावः, तथेहापि भृङ्गोपालम्भे वाच्ये अभिधापर्यवसानेऽपि व्यङ्ग्यप्रियतमोपालम्भस्सारूप्येण प्रतीयमानोऽपि कविसंरम्भगोचर एवेत्युभयोस्तुल्यतया प्राधान्यात्स-